This page has not been fully proofread.

[वृत्त
स्कारः ।
 
[ व्यङ्ग्य भानन्दः
 
विषयानन्दः-तत्तत्स्रक्चन्द नवनिता दिविषयाका रैकाप्रबुद्ध्यभि-
विषयी विषयासक्तः १ शास्त्रानुसारैहिक विषयभोक्तृत्वे सत्यामु-
ष्मिार्थ कर्मकर्ता २ विषयिताश्रयः * ३ विषय ( निष्ठावरण-
निवर्तकत्वं विषयित्वम् ४) विभासकचैतन्यम् ॥ २७७७ ॥
विष्णुः-रजस्तमोगुणोपसर्जन कसत्त्वावच्छिन्न चैतन्यम् २७७८
विसंवादः- प्रमाणान्तरेण बाधः १ प्रमाणाननुसरणत्वे सत्य-
न्यथा स्थितस्यार्थस्यान्यथा कथनत्वम् ॥ २७८१ ॥
विसंवादिभ्रमः - विफलप्रवृत्तिजनको भ्रमः ॥ २७८२ ॥
विस्मयः - नष्टगर्व: १ अपूर्ववस्तुदर्शनादिजन्यो मानसोल्लासः ।
विहितं-विधेयम् १ धर्मापादकं कर्म २ इष्टसाधनत्वेन वेदबोधित
वीतानुमानं अन्वयमुखेन प्रवर्तनानं विधायकमनुमानम् ।
वृत्तिः -सूत्रमात्रव्याख्या * १ शाब्दबोध हेतुपदार्थोपस्थित्य-
नुकूल: पदपदार्थयोः स्मार्यस्मारकभावसम्बन्धः * २ विषय-
चैतन्याभिव्यञ्ज कोऽन्तःकरणाज्ञानयोः परिणाम विशेषः । क्रो-
धादिवृत्तावतिव्याप्तिवारणाय विषयचैतन्याभिव्यञ्जक
इति, चक्षुरादौ विषयचैतन्याभिव्यञ्ज केऽतिव्याप्तिवारणार्थ-
मन्तःकरणाशानयोः परिणामविशेष इति ॥२७९१॥
 
S
 
१ व्यावहारिकघटपटाद्यर्था काराऽन्तःकरणस्य परिणामात्मिका वृत्तिः,
प्रातिभ/सिकशुक्तिरजताद्यर्थाकारा त्वज्ञानस्य परि०वृत्तिरिति विभागः ।