This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः
 
[विष] १२१
१ व्यष्टि -
 
<bold>विश्वजीव:-</bold> जागरे व्यष्टिस्थूलशरीराभिमानिजीवः
१ व्यष्टि -
स्थूलसूक्ष्मकारणशरीरत्रयोपहितं चैतन्यमिति प्रग्रं० ॥ २७५४ ॥

<bold>
विश्वव्यसनं -</bold> गृहक्षेत्रादिसंपादनेच्छाहेतुर्व्यसनम् ॥ २७५५॥

<bold>
विश्वासः -</bold> वञ्चकत्वाभावसंभावना १ निर्दोषत्वेनाभिमानो वा ।

<bold>
विषमम् -</bold> विरूप ( कार्योत्पत्तिः १ ) सङ्घटनम् ॥ २७५९ ॥

<bold>
विषयत्वं-</bold> संविन्निरूपकत्वम् *१पदवाच्यत्वम् २ शरीरेन्द्रियभि-

न्
नत्वे सति जन्यत्वे सति साक्षात्परम्परया वोपभोगसाधनत्वम् ।
 
P
 

शरीरादावतिव्याप्तिनिरासाय शरीरेन्द्रियभिन्नत्वे सती-

ति, कालादिवारणाय जन्यत्वे सतीति, परमाण्वादावति-

व्याप्तिवारणाय विशेष्यदलम् ३ विशब्दश्च विशेषार्थः सिनोति-

र्
बन्धनार्थकः, विशेषेण सिनोतीति विषयोऽर्थनियामकः <error>२७६६
</error><fix>॥२७६६॥</fix>
<bold>
विषयचैतन्यं-</bold> 'प्रमेयचैतन्य' वदस्य लक्षणमनुसन्धेयम् <error>२७६७
</error><fix>॥२७६७॥</fix>
<bold>
विषयगतपरोक्षता-</bold> योग्यविषयस्यानावृतसंवित्तादात्म्याभावः
 
A
 

<bold>
विषयगतप्रत्यक्षत्वं-</bold> ज्ञानाकारार्पणक्षम हेतुत्वम् । चक्षुरादि-

व्युदासायाकारसमर्पकत्वविशेषणमिति सौगताः १ तत्तदर्थस्य

स्वव्यवहारानुकूलचैतन्याभेदः २ योग्य (विषयस्य वर्तमानप्र-

मातृचै० ३) त्वे सति स्वांवाकारवृत्त्युपहितप्रमातृचैतन्याभिन्नत्वम्

<bold>
विषयवाक्यं-</bold> विचार (र्हि वाक्यम् १)विधायकं वाक्यम् <error>२७७४
</error><fix>॥२७७४॥</fix>
<bold>
विषयवासना-</bold> शब्दादिविषयाणां भुज्यमानत्वदशाजन्यः सं-