This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः
 
[विष] १२१
१ व्यष्टि -
 
विश्वजीव:- जागरे व्यष्टिस्थूलशरीराभिमानिजीवः
स्थूलसूक्ष्मकारणशरीरत्रयोपहितं चैतन्यमिति प्र० ॥ २७५४ ॥
विश्वव्यसनं - गृहक्षेत्रादिसंपादनेच्छाहेतुर्व्यसनम् ॥ २७५५॥
विश्वासः - वञ्चकत्वाभावसंभावना १ निर्दोषत्वेनाभिमानो वा ।
विषमम् - विरूप ( कार्योत्पत्तिः १ ) सङ्घटनम् ॥ २७५९ ॥
विषयत्वं-संविन्निरूपकत्वम् ३१पदवाच्यत्वम् २ शरीरेन्द्रियभि-
नत्वे सति जन्यत्वे सति साक्षात्परम्परया वोपभोगसाधनत्वम् ।
 
P
 
शरीरादावतिव्याप्तिनिरासाय शरीरेन्द्रियभिन्नत्वे सती-
ति, कालादिवारणाय जन्यत्वे सतीति, परमाण्वादावति-
व्याप्तिवारणाय विशेष्यदलम् ३ विशब्दश्च विशेषार्थः सिनोति-
बन्धनार्थकः, विशेषेण सिनोतीति विषयोऽर्थनियामकः २७६६
विषयचैतन्यं 'प्रमेयचैतन्य' वदस्य लक्षणमनुसन्धेयम् २७६७
विषयगतपरोक्षता-योग्यविषयस्यानावृतसंवित्तादात्म्याभावः
 
A
 
विषयगतप्रत्यक्षत्वं-ज्ञानाकारार्पणक्षम हेतुत्वम् । चक्षुरादि-
व्युदासायाकारसमर्पकत्वविशेषणमिति सौगताः १ तत्तदर्थस्य
स्वव्यवहारानुकूलचैतन्याभेदः २ योग्य (विषयस्य वर्तमानप्र-
मातृचै० ३) त्वे सति स्वांकारवृत्त्युपहितप्रमातृचैतन्याभिन्नत्वम्
विषयवाक्यं-विचार (र्हि वाक्यम् १)विधायकं वाक्यम् २७७४
विषयवासना-शब्दादिविषयाणां भुज्यमानत्वदशाजन्यः सं-