This page has been fully proofread once and needs a second look.

रूपपदम्, समूहालम्बनज्ञानेऽतिव्याप्तिपरिहारार्थं विषयत
इति विशेषणम् ३ ख्यातेरेव (भेदग्रहस्यैव ) अभावः ॥ १९ ॥
<bold>अग्निहोत्रम्-</bold>आहितेष्वग्निषु सायं प्रातश्चानुष्ठेयो होमः ॥ २० ॥
<bold>अघटकत्वम्-</bold>तद्विषयत्वाव्यापकविषयतावत्त्वम् ॥ २१ ॥
<bold>अङ्गत्वम्-</bold>अन्यार्थत्वम् १ तदीयप्रधानफलजनकव्यापारजन-
कत्वे सति तदीयप्रधानफलाजनकत्वम् । घटादावतिव्याप्तिवा-
रणाय सत्यन्तम् २ उपकारकत्वम् ३ वेदार्थज्ञानोपयोगित्वम् ।
<bold>अजहल्लक्षणा-</bold>शक्यार्थापरित्यागेन तत्सम्बन्ध्यर्थान्तरे वृत्तिः,
यथा शोणो धावतीत्यत्र शोणपदस्य शोणगुणविशिष्टेश्वादिद्रव्ये ।
जहल्लक्षणायामतिव्याप्तिवारणाय शक्यार्थापरित्यागेनेति १
लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधप्रयोजिका लक्षणा ।
<bold>अज्ञः - </bold>ज्ञानरहितः १ आत्मज्ञानशून्यः * २ गुरुमुखानधीत-
शास्त्रः ३ श्रुतितात्पर्यानभिज्ञो वा ॥ ३१ ॥
 
<bold>अज्ञातं- </bold>न ज्ञातम् १ ज्ञानाभास्यम् । [क्षणमप्यत्रप●
<bold>अज्ञातसत्ता-</bold>ज्ञानप्राक्कालीनविषयसत्ता १ 'व्यावहारिकसत्ता'ल-
<bold>अज्ञानं- </bold>न ज्ञानम् १ कर्तव्याकर्तव्यादिविषयविवेकाभावः *२परि-
षदा विज्ञातस्य वादिना त्रिरभिहितस्यापि वाक्यार्थस्याबोधः*३
कार्यमात्रोपादानत्वे सति सद[^१]सद्भ्यामनिर्वचनीयम् ४ अनादि-
 
[^१ सदसद्भ्यामित्युपलक्षणं, सत्त्वेनासत्त्वेन सदसदुभयत्वेन ब्रह्मणो
भिन्नत्वेनाभिन्नत्वन भिन्नाभिन्नोभयत्वन सावयवत्वेन निरवयवत्वेन
सावयवनिरवयत्रोभयत्वेन चेति नवधाऽप्यनिर्वाच्यमित्यर्थः।
]