This page has been fully proofread once and needs a second look.

रूपपदम्, समूहालम्बनज्ञानेऽतिव्याप्तिपरिहारार्थं विषयत
इति विशेषणम् ३ ख्यातेरेव (भेदग्रहस्यैव ) अभावः ॥ १९ ॥
अग्निहोत्रम्-आहितेष्वग्निषु सायं प्रातश्चानुष्ठेयो होमः ॥ २० ॥
अघटकत्वम्- तद्विषयत्वाव्यापकविषयतावत्त्वम् ॥ २१ ॥
अङ्गत्वम्-अन्यार्थत्वम् १ तदीयप्रधानफलजनकव्यापारजन-
कत्वे सति तदीयप्रधानफलाजनकत्वम् । घटादावतिव्याप्तिवा-
रणाय सत्यन्तम् २ उपकारकत्वम् ३ वेदार्थज्ञानोपयोगित्वम् ।
अजहल्लक्षणा-शक्यार्थापरित्यागेन तत्सम्बन्ध्यर्थान्तरे वृत्तिः,
यथा शोणो धावतीत्यत्र शोणपदस्य शोणगुणविशिष्टेश्वादिद्रव्ये ।
जहल्लक्षणायामतिव्याप्तिवारणाय शक्यार्थापरित्यागेनेति १
लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधप्रयोजिका लक्षणा ।
अज्ञः - ज्ञानरहितः १ आत्मज्ञानशून्यः * २ गुरुमुखानधीत-
शास्त्रः ३ श्रुतितात्पर्यानभिज्ञो वा ॥ ३१ ॥
 
अज्ञातं न ज्ञातम् १ ज्ञानाभास्यम् । [क्षणमप्यत्रप●
अज्ञातसत्ता-ज्ञानप्राक्कालीनविषयसत्ता १ 'व्यावहारिकसत्ता'ल-
अज्ञानं न ज्ञानम् १ कर्तव्याकर्तव्यादिविषयविवेकाभावः *२परि-
षदा विज्ञातस्य वादिना त्रिरभिहितस्यापि वाक्यार्थस्याबोधः*३
कार्यमात्रोपादानत्वे सति सदसद्भ्यामनिर्वचनीयम् ४ अनादि-

[^
१ सदसद्भ्यामित्युपलक्षणं, सत्त्वेनासत्त्वेन सदसदुभयत्वेन ब्रह्मणो
भिन्नत्वेनाभिन्नत्वन भिन्नाभिन्नोभयत्वन सावयवत्वेन निरवयवत्वेन
सावयवनिरवयत्रोभयत्वेन चेति नवधाऽप्यनिर्वाच्यमित्यर्थः।

]