This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
४ [अज्ञा]
रूपपदम्, समूहालम्बनज्ञानेऽतिव्याप्तिपरिहारार्थं विषयत

इति विशेषणम् ३ ख्यातेरेव (भेदग्रहस्यैव ) अभावः ॥ १९ ॥

अग्निहोत्रम्-आहितेष्वग्निषु सायं प्रातश्चानुष्ठेयो होमः ॥ २० ॥

अघटकत्वम्- तद्विषयत्वाव्यापक विषयतावत्त्वम् ॥ २१ ॥

अङ्गत्वम्-अन्यार्थत्वम् १ तदीयप्रधानफलजनकव्यापारजन-

कत्वे सति तदीयप्रधानफलाजनकत्वम् । घटादावतिव्याप्तिवा-

रणाय सत्यन्तम् २ उपकारकत्वम् ३ वेदार्थज्ञानोपयोगित्वम् ।

अजहल्लक्षणा-शक्यार्थापरित्यागेन तत्सम्न्ध्यर्थान्तरे वृत्तिः,

यथा शोणो धावतीत्यत्र शोणपदस्य शोणगुण विशिष्टेश्वादिद्रव्ये ।

जहल्लक्षणायामतिव्याप्तिवारणाय शक्यार्थापरित्यागेनेति १

लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयत्रोबोधप्रयोजिका लक्षणा ।

अज्ञः - ज्ञानरहितः १ आत्मज्ञानशून्यः * २ गुरुमुखानधीत-

शास्त्रः ३ श्रुतितात्पर्यानभिज्ञो वा ॥ ३१ ॥
 

 
अज्ञातं न ज्ञाम् १ ज्ञानाभास्यम् ।
[क्षणमप्यत्रप●

अज्ञातसत्ता-ज्ञानप्राक्कालीन विषयसत्ता १ 'व्यावहारिकसत्ता'ल-

अज्ञानं न ज्ञानम् १ कर्तव्याकर्तव्यादिविषयविवेकाभावः *२परि-

दा विज्ञातस्य वादिना त्रिरभिहितस्यापि वाक्यार्थस्याबोधः*३

कार्यमात्रोपादानत्वे सति सदसद्भ्यामनिर्वचनीयम् ४ अनादि-

१ सदसच्यामित्युपलक्षणं, सत्त्वेनासत्त्वेन सदसद्भयत्वेन ब्रह्मणो

भिन्नत्वेनाभिन्नत्वन भिन्नाभिन्नोभयत्वन सावयवत्वेन निरवयवत्वेन

सावयवनिरवयत्रो भयत्वेन चंति नवधाऽप्यनिर्वाच्यमित्यर्थः