This page has been fully proofread once and needs a second look.

१२० [विश्रा]
 
सव क्षणलग्रह.
 
<bold>विवेकः --</bold> नित्यानित्यवस्तुविचारः १संदेहानन्तरं जायमान ऊहः

<bold>
विशिष्ट:-</bold> विशेषण (युक्तः १) विशेष्य संबन्धावगाहिज्ञान संबन्धी

<bold>
विशिष्टाद्वैतं-</bold> द्वैतविशिष्टमद्वतम् १ सूक्ष्मचिदचिदात्मकशरीर-

विशिष्टस्य कारणस्य परमात्मनः, स्थूलचिदचिदात्मकशरीरवि-

शिष्टस्य कार्यस्य परमात्मनश्चैक्यम् २ विशिष्टं युक्तं मिलितमद्वैतं.

<bold>
विशेषत्वं-</bold> अल्प (तर विषयत्वम् १ व्यापकत्वम् *२स्वतो व्या (व

र्तक) वृत्तत्वम् ३ निःसामान्यत्वे सत्येकमात्रसमवेतत्वम् ४ अन्त्य -

व्यावर्तकत्वे परमसोमावर्त्तित्वे वा सति नित्यद्रव्यमात्रवृत्तित्वम् ।

<bold>
विशेषणं-</bold> विशिष्यतेऽनेन १ विशेष्यधर्मः २ प्रत्याय्यव्यावृत्त्यधि-

करणतावच्छेदकत्वं विशेषणत्वम् ३ स्वकालनियतव्यावृत्तिबोध-

जनकत्वमित्यद्वैतरत्नरक्षणे ४ कार्यान्वयित्व सति कार्यकाले नि-

यमेन वर्तमानत्वे सति व्यावर्तकत्वम्, यथा नीलरूपादिकं घट-

स्य ५ प्रतीयमान वैशिष्टय प्रतियोगित्वम् ६ सजातीयमात्राठ्याव-

र्तकं केवलविशेषणम् ७स्वेतर कृत्स्नव्यावर्तकं लक्षणरूपविशेषणम्

<bold>
विशेषणविशेष्यभावसंबन्धः-</bold> मिथो विशेषणविशेष्ययोरनु-

लोमप्रतिलोमतया विशेषणविशेष्यत्वे १ यत्किञ्चिन्निष्ठविशेषणता-

निरूपितविशेष्यता, यत्किकिं०ष्यतानि०षणता वा ।
[चित्तवृत्तिः
<bold>
विशेषाहङ्कारः --</bold> ब्राह्मणोऽहं क्षत्रियोहमित्याद्यभिमानात्मिका

<bold>
विशेष्यं-</bold> व्यावर्त्यम् *विशेष्यताश्रयः २ भासमानवैशिष्टयानुयोगित्वं

<bold>
विश्रामः-</bold> श्रमापनयनम् *१ प्रवृत्तव्यापारस्यावसानम् <error>२७५२
 
[चित्तवृत्तिः
 
**
 

</error><fix>॥२७५२॥</fix>