This page has been fully proofread once and needs a second look.

[विवि] ११९
तदर्थकथनम्
 
● सर्वलक्षणसङ्ग्रहः *
रवाक्येनार्थकथनम् २ तत्समानार्थकपदान्तरेण
तदर्थकथनम्
<bold>
विवर्तः-</bold> पूर्वावस्थानपायेऽवस्थान्तरापत्तिः १ पूर्वरूपा परित्यागे-

न ( रूपान्तरप्रदर्शक: २) [ सत्यनानाकारप्रतिभास इति प्रग्रं० ३उपा-

दानविषमसत्ताकत्वे सत्यन्यथाभावः। परिणामवारणाय सत्यन्तं

<bold>
विवर्तवादः -</bold> अधिष्ठान
स्वरूपमपरित्यज्य दोषवशाद्रूपान्तरेण

( प्रतीतस्य) कथनम् ॥ २७२३ ॥
 

<bold>
विवादः -</bold> विरुद्धो वादः १ पक्षप्रतिपक्षपरिग्रहेण वदन [ संयोग

<bold>
विवाहः -</bold> विशिष्टं वहनम् १ भार्यात्वसंपादककर्म २सहधर्मचारिणी-

<bold>
विविदिषा-</bold> वेदनेच्छा १ सद्यः स्वतत्त्वसाक्षात्कारकरणेंणैकपराय-

णत्वं जनयत्स्वचित्तवृत्तिः । मुमुक्षोरष्टाङ्गयोगैकतत्परत्वं जनय-

न्त्यां वृत्तौ व्यभिचारवारणाय सद्य इति पदम्, साक्षात्कार-

तदिच्छयोः क्रमाद्बोधयितुं स्वपदद्वयम् अद्वैतब्रह्मेतरवस्तुत्र-

त्यक्षहेतुतादृग्वृत्तावतिव्याप्त्यभावार्थं तत्त्वेति, साक्षात्कारस्थले

ज्ञानेत्युक्तौ परोक्षज्ञानकारणनिरुक्तवृत्तावतिप्रसङ्गस्तद्द्वारणाय

साक्षात्कारेति, तथा करणस्थले हेतुपदनिवेशे कमणां शा-

न्त्यादीनामपि बहिरङ्गान्तरङ्गहेतुत्वेन तादृक्स्थले व्यभिचार-

परिहारार्थं करणेति, एकपदं लौकिकव्यापारान्तरव्युदासाय,

परायणपदं वैदिककर्मरत्यभावार्थम्, जनयदिति प्रतिबन्ध-

राहित्यार्थम् चित्तेति पराभिमतात्मधर्मेच्छाव्यावृत्त्यर्थम् ।

<bold>
विविदिषासंन्यासः -</bold> विवेकादिसाधन सम्पन्सम्पन्नेन तत्त्वज्ञानमु-

द्दिश्य क्रियमाणः संन्यासः ॥ २७२४ ॥