This page has been fully proofread once and needs a second look.

● सर्वलक्षणसङ्ग्रहः *
 
[विनि]११७
 
<bold>वितर्क:-</bold> सन्देहाद्यनन्तरं जायमान ऊहः ॥ २६५६ ॥

<bold>
विदेहमुक्ति:-</bold> भाविशरीरानारम्भः १ तत्त्वज्ञानिनो भोगेन

प्रारब्धकर्मक्षये वर्तमानशरीरपातः ॥ २६५८ ॥

<bold>
विद्या-</bold> पुरुषार्थसाधनम् १ वेदार्थपरिज्ञानम् *२ विद्याहेतुशास्त्रम्

<bold>
विद्यामदः -</bold> मत्सदृशः को वेत्त्यहं पण्डितो न मत्तोऽन्यः

पण्डितोऽस्तीति मनसोऽभिनिवेश: 1 अहं कः ? मत्तोप्यधिकाः

पण्डिता बहवः सन्ति तस्मान्मामपि कश्चित्पण्डितः पराभवि-
व्

ष्
यतीति निरन्तरश्चिन्तनं विद्यामदनिवृत्त्युपायः ॥ २६६२ ॥

<bold>
विद्वत्संन्यासः-</bold> गृहस्थाश्रमादौ कृतश्रवणादिभिरुत्पन्नसा-

क्षात्कारेण गृहस्थादिना चित्तविश्रान्तिलक्षणां जीवन्मुक्ति-

मुद्दिश्य क्रियमाणः संन्यासः ॥ २६६३ ॥
 

<bold>
विधानं --</bold> अप्र (प्तस्य प्राप्तये कथनम् १ ) वृत्तप्रवर्तनम्<error> २६६५
</error><fix>॥२६६५॥</fix>
<bold>
विधिः-
</bold> शास्त्रोक्तव्यवस्था १ प्रवर्तकज्ञान विषयो धर्मः *२ विधा-

यकवाक्यम् ३ पुरुषप्रवर्तकवाक्यं वा ४ अज्ञातार्थज्ञापको वेद-

भागः ५ अप्राप्तप्रापको विधिरिति वैदिकाः ६ शब्दभावना

विधिरिति भाट्टाः ७ नियोगो विधिरिति प्राभाकराः ८ इष्टसाध-

नताबोधकप्रत्ययसमभिव्याहृतवाक्यमिति तार्किकादयः<error>२६७४
</error><fix>॥५६७४॥</fix>
<bold>
विनिगमनाविरहः-</bold> एकतरपक्षपातियुक्तिविरहः ॥ २६७५ ॥

<bold>
विनियोगः-</bold> अनुष्ठानक्रमविधानम् १ प्रकृतक्रियाप्रवृत्तिः <error>२६७७
</error><fix>॥२६७७॥</fix>
<bold>
विनियोगविधिः-</bold> अङ्गप्रधान संबन्धबोधको विधिः ॥२६७८॥