This page has been fully proofread once and needs a second look.

● सर्वलक्<bold>वाच्यत्वं-</bold> वचनार्हत्वम् *१ पदजन्यप्रतीतिविणसङ्ग्रहः *
 
[वास] ११५
यत्वम्॥२६०५
 
वाच्यत्वं वचनाईत्वम् १ पदजन्यप्रतीतिविषयत्वम्
 

<bold>
वाञ्छा-</bold> इष्टसाधनताधीजन्याभीष्टविषयचित्तवृत्तिः ॥ २६०६ ॥

<bold>
वादः --</bold> तत्त्व ( बुभुत्सुना सह कथा १ ) निर्णयफलः कथाविशेषः २

यथार्थबोधेच्छुवाक्यमिति ग्रं० ३ स्वाभिमतांतार्थकथनम् <error>२६१०
</error><fix>॥२६१०॥</fix>
<bold>
वादी-</bold> प्रथमपक्ष प्रतिपादकः १ विचारस्थले वादकथाकर्तेति

ग्रं० २ प्रकृतसाध्यसिद्ध्यर्थन्यायप्रयोगकर्ता ॥ २६१३ ॥

<bold>
वानप्रस्थः --</bold> गृहस्थाश्रममपहाय गृहीतमुनिवृत्तिरसंन्यस्तः<error>२६१४
</error><fix>॥२६१४॥</fix>
<bold>
वायु:-
</bold> शब्दस्पर्शगुणकः १ रूपरहितत्वे सति स्पर्शवत्त्वं वायुत्वम्

<bold>
वारणं-</bold> क्रियाप्रतिषेधः १ प्रवृत्तिविमुखीकरणं वा ॥ २६१८ ॥

<bold>
वार्त्ता-</bold> अन्योन्यकथनम् १ कथोपकथन मिति ग्रं० ॥ २६२० ॥

<bold>
वार्तिकं-</bold>त्क्तानुक्तदुरुक्ता (र्थव्यक्तकारित्वं वार्तिकत्वम् १ ) नां
 

चिन्ता यत्र प्रर्वतते, तं प्रन्थं वार्त्तिकं प्राहुर्वार्तिकज्ञा मनीषिणः

<bold>
वासना-</bold> अनुभवजन्या स्मृतेर्हेतुः १ पूर्वापरपरामर्श विना सह-

सोत्पद्यमानस्य क्रोधादिवृत्तिविशेषस्य हेतुश्चित्तगतः संस्कार-

विशेषः, यथा स्वस्वदेशाचार कुलधर्मभाषास्वभावभेदतद्गता-

पशब्दसुशब्दादिषु प्राणिनामभिनिवेशः २ सुषुझ्प्त्यवस्थागता

घीसूक्ष्मावस्था ।
[ सत्यपि क्रोधाद्यनुत्पत्तिः
 

<bold>
वासनाक्षयः-</bold> विवेकजन्यचित्तप्रशमवासनादान बाह्यनिमित्ते
 

<bold>
वासनानन्दः -</bold> ब्रह्मध्यानादे[१^]र्व्यायुत्थितस्य या आनन्दस्य वासना ।

[^
१ आदि पदेन विषयध्यानस्य सुषुप्तेश्च परिग्रहः ।
 
]