This page has been fully proofread once and needs a second look.


 
<bold>अकस्मात्त्वं-</bold>कारणानधीनत्वम् १ अनिश्चितकारणकत्वं वा ॥ २ ॥
<bold>अक्रूरत्वं-</bold>मृदुत्वम् १ द्रोहशून्यत्वं वा २ वृथापूर्वपक्षादिकारिष्व-
पि शिष्यादिष्वप्रियभाषणादिव्यतिरेकेण बोधयितृत्वम् ॥ ५॥
<bold>अक्षरं-</bold>न क्षरति १ वर्णस्मारकत्वे सति लिपिसन्निवेशत्वमक्षरत्वं
<bold>अखण्डार्थत्वं-</bold>सजातीयविजातीयस्वगतभेदशून्यार्थत्वम् । सा-
ङ्ख्यात्मन्यतिव्याप्तिवारणाय सजातीयेति, आकाशेऽतिव्याप्ति-
वारणाय विजातीयेति १ त[^१]त्प्रातिपदिकार्थत्वम् २ अप[^२]र्याया-
नेकशब्दप्रकाश्यत्वे सत्यविशिष्टत्वम् । घट: कलश: कुम्भ
इत्यादिपर्यायानेकशब्दप्रकाश्येऽविशिष्टे घटादावतिप्रसङ्गव्यु -
दासाय सत्यन्तम्, नीलो घट इत्याद्यपर्यायानेकशब्दप्रकाश्ये
तादात्म्येन नीलविशिष्टे घटाद्यर्थेतिप्रसङ्गवारणार्थमविशिष्टेति
<bold>अखण्डार्थबोधकवाक्यत्वं-</bold> संसर्गानवगाहियथार्थज्ञानजन-
कत्वम् । राजपुरुष इत्यादौ संसर्गपरे वाक्येऽतिव्याप्तिवार-
णाय संसर्गानवगाहीति १ प्रातिपतिकार्थमात्रपर्यवसायित्वं
<bold>अखण्डोपाधिः-</bold> अनिर्वचनीयो धर्मः १ असमवेतत्वे सत्यनुगतस्वं
<bold>अख्यातिः -</bold> न ख्याति: १ विशिष्टार्थगोचरविसंवादिप्रवृत्तिजन-
कप्रकाशः २ स्वरूपतो विषयतश्चागृहीत (भेदज्ञानद्वयम् ) विवे-
कानेकज्ञानत्वम् । एकविषयानेकज्ञानेष्वतिव्याप्तिपरिहारार्थं स्व-
 
[^१ तत्प्रातिपदिकार्थत्वं प्रकृष्टप्रकाशश्चन्द्र इति वत्तदेकमात्रवस्तुपरत्वम्
२ अपर्यायभूतायेअनेकेशब्दाः सत्यज्ञानानंदादयस्तत्प्रकाश्यत्वेसतीत्यर्थः]