This page has been fully proofread once and needs a second look.

[सख्या] ३
 
* सर्वलक्षणसङ्ग्रहः *
M अ 2
 


 
अकस्मात्त्वं-कारणानधीनत्वम् १ अनिश्चितकारणकत्वं वा ॥ २ ॥

अक्रूरत्वं मृदुत्वम् १ द्रोहशून्यत्वं वा २ वृथापूर्वपक्षादिकारिष्व-

पि शिष्यादिष्वप्रियभाषणादिव्यतिरेकेण बोधयितृत्वम् ॥ ५॥

अक्षरं-न क्षरति १ वर्णस्मारकत्वे सति लिपिसन्निवेशत्वमक्षरत्वं

अखण्डार्थत्वं सजातीयविजातीय स्वगतभेदशून्यार्थत्वम् । सा-

ङ्ख्यात्मन्यतिव्याप्तिवारणाय सजातीयेति, आकाशेऽतिव्याप्ति-

वारणाय विजातीयेति १ तत्प्रातिपदिकार्थत्वम् २ अपर्याया-

नेकशब्दप्रकाश्यत्वे सत्यविशिष्टत्वम् । घट: कलश: कुम्भ

इत्यादिपर्यायानेकशब्दप्रकाश्येऽविशिष्टे घटादावतिप्रसङ्गव्यु -

दासाय सत्यन्तम्, नीलो घट इत्याद्यपर्यायाने कशब्दप्रकाश्ये

तादात्म्येन नीलविशिष्टे घटाद्यर्थेतिप्रसङ्गवारणार्थमविशिष्टेति

अखण्डार्थबोधकवाक्यत्वं संसर्गानवगाहियथार्थज्ञानजन-

कत्वम् । राजपुरुष इत्यादौ संसर्गपरे वाक्येऽतिव्याप्तिवार-

णाय संसर्गानवगाहीति १ प्रातिपतिकार्थमात्र पर्यवसायित्वं

अखण्डोपाधिः- अनिर्वचनीयो धर्मः १ असमवेतत्वे सत्यनुगतस्वं

अख्यातिः - न ख्याति: १ विशिष्टार्थगोचरविसंवादिप्रवृत्तिजन-

कप्रकाशः २ स्वरूपतो विषयतश्चागृहीत (भेदज्ञानद्वयम् ) विवे-

कानेकज्ञानत्वम् । एक विषयाने कज्ञानेष्वतिव्याप्तिपरिहारार्थं स्व-
k
 

 
१ तत्प्रातिपदिकार्थत्वं प्रकृष्टप्रकाशश्चन्द्र इति वत्तदेकमात्रवस्तुपरत्वम्

२ अपर्यायभूतायेअनेकेशब्दाः सत्यज्ञानानंदाद यस्तत्प्रकाश्यत्वेसतीत्यर्थः