This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
[युजा] १०७
 
<bold>यतिचान्द्रायणं-</bold> एकमासं प्रत्यहं मध्याह्नकालेऽष्टाष्टपिण्डाशनं

<bold>
यथार्थज्ञानं-</bold> अबाधितार्थविषयज्ञानम् १ फलवत्प्रवृत्तिजननयो-

ग्यम्, यथा रजते इदं रजतमिति ज्ञानम् २ अविसंवादिज्ञानम्

<bold>
यथेष्टाचरणं-</bold> अतिक्रमः १ यथाभिप्रेतानुष्ठानमिति ग्रं० २

शास्त्रमर्यादोल्लङ्घनपूर्वकस्वेष्टविषयक प्रवृत्तिः ॥ २४५९ ॥

<bold>
यमः --</bold> हिंसादिभ्यो निषिद्धधर्मेभ्यो योगिनं यमयति निवर्तय

तीति १ अहिंसा (द्यन्यतमः २ ) दिपरिग्रहः ३ मनोमात्र -

साध्यत्वे सति निवृत्तिलक्षणयोगाङ्गविशेषः ४ यमफलानि

सकामानां योगशास्त्रे कथितानि, तथाहि-अहिंसाप्रतिष्ठायां

तत्सन्निधौ वैरत्यागः १ क्रियाफलाश्रयत्वम् २ सर्वरत्नोप-

स्थानम् ३ वीर्यलाभः ४ जन्मकथन्तासंबोधः ॥ २४२३ ॥

<bold>
यागः-</bold> मन्त्रकरणकः १ वह्नयाद्यधिकरणमिति ग्रं० २ सयूपत्वे स-

त्यन्त्याहुतित्वं यागत्वम् अग्निहोत्रवारणाय सत्यन्तम्, देव-

गृहस्थण्डिलविशेषादिवारणायान्त्याहुतीति ३ 'यज्ञ' लक्षणम-

<bold>
याचनं-</bold> स्वीकार (दान) नुकूलो व्यापारः । [प्यत्र पठनीय
 
-
 

<bold>
यात्रा --</bold> किञ्चित्कार्यमुद्दिश्य देशान्तरगमनम् ॥ २४२९ ॥
 
S
 

<bold>
युक्तयोगित्वं-</bold> सर्वदा ( पदार्थज्ञानवत्त्वम् १ ) समाधिमत्त्वम् ।

<bold>
युक्ति:-</bold> अर्थावधारणम् १ स्वपक्षसाधकविपक्षबाधकप्रमा-

णोपन्यासः ।
 
[ सकलज्ञानवत्वं
<bold>
युञ्जानयोगित्वं-</bold> कादाचित्कसमाधिमत्त्वम्
 
[ सकलज्ञानवत्वं
१ चिन्तासहकारेण