This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
[युजा] १०७
 
यतिचान्द्रायणं- एकमासं प्रत्यहं मध्याह्नकालेऽष्टाष्टपिण्डाशनं
यथार्थज्ञानं-अबाधितार्थविषयज्ञानम् १ फलवत्प्रवृत्तिजननयो-
ग्यम्, यथा रजते इदं रजतमिति ज्ञानम् २ अविसंवादिज्ञानम्
यथेष्टाचरणं- अतिक्रमः १ यथाभिप्रेतानुष्ठानमिति ग्रं० २
शास्त्रमर्यादोल्लङ्घनपूर्वकस्वेष्टविषयक प्रवृत्तिः ॥ २४५९ ॥
यमः - हिंसादिभ्यो निषिद्धधर्मेभ्यो योगिनं यमयति निवर्तय
तीति १ अहिंसा ( चन्यतमः २ ) दिपरिग्रहः ३ मनोमात्र -
साध्यत्वे सति निवृत्तिलक्षणयोगाङ्गविशेषः ४ यमफलानि
सकामानां योगशास्त्रे कथितानि, तथाहि-अहिंसाप्रतिष्ठायां
तत्सन्निधौ वैरत्यागः १ क्रियाफलाश्रयत्वम् २ सर्वरत्नोप-
स्थानम् ३ वीर्यलाभः ४ जन्मकथन्तासंबोधः ॥ २४२३ ॥
यागः-मन्त्रकरणकः १ वह्नयाद्यधिकरणमिति ग्रं० २ सयूपत्वे स-
त्यन्त्याहुतित्वं यागत्वम् अग्निहोत्रवारणाय सत्यन्तम्, देव-
गृहस्थण्डिलविशेषादिवारणायान्त्याहुतीति ३ 'यज्ञ' लक्षणम-
याचनं स्वीकार (दान) नुकूलो व्यापारः । [प्यत्र पठनीय
 
-
 
यात्रा - किञ्चित्कार्यमुद्दिश्य देशान्तरगमनम् ॥ २४२९ ॥
 
S
 
युक्तयोगित्वं-सर्वदा ( पदार्थज्ञानवत्त्वम् १ ) समाधिमत्त्वम् ।
युक्ति:- अर्थावधारणम् १ स्वपक्षसाधकविपक्षबाधकप्रमा-
णोपन्यासः ।
 
युञ्जानयोगित्वं-कादाचित्कसमाधिमत्त्वम्
 
[ सकलज्ञानवत्वं
१ चिन्तासहकारेण