This page has not been fully proofread.

१०६ [यत]
 
* सवलक्षणसङ्ग्रहः *
 
मोचनं - दूरीकरणम् १ बहिःक्षरणावच्छिन्नव्यापारो वा २३९२
मोहः- ममत्वबुद्धिः १ चित्तवैकल्यम् २ वस्तुतत्त्वानवधारिणी
चित्तवृत्तिः ३ हितेष्वहितबुद्धिरहितेषु हितबुद्धिर्वा ४ सत्येन
यथार्थज्ञानरूपेण विवेकन मोहस्य निवृत्तिः ॥ २३९६ ॥
मौनं वाक्य (मः १) महेतुर्मनःसंयमः २ वाचौ यस्मान्नि-
वर्तन्ते तद्वक्तुं केन शक्यते, प्रपञ्चो यदि वक्तव्यः सोपि
शब्दविवर्जितः । इति वा तद्भवेन्मौनं सर्व सहजसंज्ञितम्,
गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ॥ २३९८ ॥
म्लेच्छ : - अप ( शब्द: १ ) भाषणम् २ गोमांसखादको यस्तु
विरुद्धं बहु भाषते, सर्वाचारविहीनश्च म्लेच्छ इत्यभिधीयते ।
8 य
 
यजमानः- स्वार्थश्रौतस्मार्त कर्मानुष्ठानकर्ता १ यजतीति २४०३
यजुर्मन्त्रः - अनियताक्षरपादावसानो मन्त्रः १ वृत्तगीतिवर्जितत्वे
सति प्रश्लिष्टपठित [१९७५] मन्त्रः, यथाग्नीदग्नीन्विहरेति २४०५
यजुर्वेदः - यजुर्बहुलो वेदः १ यजुरवयवको वेदः २ यजु ( र्वि-
नियोजकत्वं यजुर्वेदत्वम् ३) द्रव्यको वेद इति सुधायाम् २४०९
यशः - देवतोद्देशेन हविस्त्यागः १ यूप संबन्धरहितत्वे सति शास्त्र-
विहि॑ितकमविशेषः ।
यतमानवैराग्यं-अस्मिन्संसारे इदं सारमिदमसार मिति सारा-
[सार विवेकः