This page has not been fully proofread.

● सर्वलक्षणसङ्ग्रह: #
सतः पार्वत्यालिङ्गनमिति
 
[मोक्ष] १०५
कापालिकाः १४
 
चन्द्रचूडवपुषः
 
पूर्णात्मतालाभ इत्यभिनवगुप्ताचार्याः १९ पाशुपतधर्माचरणा-
त्पशुपतिसमीपगमनमेव पुनरावृत्ति रहितमिति पाशुपता: १६
हिरण्यगर्भप्राप्तिरिति
 
पञ्चाग्निविद्यायुपासनैरचिरादिमार्गेण
हैरण्यगर्भाः १७ पारदरसपानेन देहस्थैर्यमिति रसेश्वरवा-
दिनः १८ आत्यन्तिकै कविंशतिदुःखध्वसः १९ स्वसमाना-
धिकरणदुःखप्रागभावासमानकालीनदुःखध्वंसः । संसारका-
लीनदुःखध्वंसस्य मोक्षत्ववारणाय कालीनान्तं दुःखविशे-
षणम्, अस्मदीयदुःखसमानकालीनशुकमोक्षे ऽव्याप्तिवारणाय
स्वसमानाधिकरणेतिदुःखविशेषणमिति तार्किकाः २०
स्वर्गादिरिति मी० २१ दुःखसाधनशरीरनाशे नित्यनिरति-
शयसुखाभिव्यक्तिरिति तदेकदेशिनः २२ नित्यसुखसाक्षात्कार
इति भाट्टाः २३ आत्यन्तिकदुःखप्रागभावपरिपालनमिति
प्राभांकरा: २४ परापश्यन्तीमध्यमावैखरीति वाणीचतुष्टये
प्रथमायाः पराख्याया ब्रह्मरूपाया वाण्या दर्शन मिति पाणि-
नीयाः २५ प्रकृतिपुरुषविवेकदर्शनात्तद विवेकनिवृत्तौ पुरुषस्य
स्वरूपेणावस्थानमिति साङ्ख्ययोगिनः २६ चित्तानुत्पादनमित्य-
न्ये २७ संसारोपरम इत्यपरे २८ आत्महानिरित्येके २९ निखि-
लदुःखनिवृत्तिनुरस्सरं स्वात्मानन्दावाप्ति: ३० विद्यानिरस्तावि-
द्यात कार्यब्रह्म (भावापत्तिः ३१)ात्मनावस्थानमिति वे० २३९०
 
wink
 
-