2023-02-21 06:51:34 by ambuda-bot
This page has not been fully proofread.
१०४ [मोक्ष]
* सर्वलक्षणसङ्ग्रहः *
मूलाशानं ब्रह्मावर कमज्ञानम् १ निरवयवावच्छिन्न विभुचैतन्या-
मृत्युः - दीर्घनिद्रा १ विजातीयात्ममनःसंयोगनाशः । [च्छादकं
मृदुः- क्रोधशून्यः १'अक्रूर' लक्षणमप्यत्र पठनीयम् ॥२३५१॥
मेधा - धारणावती बुद्धिः १ अनेकश्रुतग्रन्थार्थधारणशक्तिर्वा ।
मेधावी-मेधायुक्तः १ गुरूपदिष्टपदार्थग्रहणधारणपटुरिति ग्रं०
मैत्री-परानुद्वेगजनिका वृत्तिः १सुखिष्वात्मीयत्वभावनमित्यादर्शे
मैथुनं सुखविशेष हेतुशुक्रक्षरणानुकूलो व्यापारः ॥ २३५८ ॥
मोक्षः स्वातत्र्यम् १ मृत्युर्वेति चार्वाकाः २. उत्तराधरभावेन नि-
रन्तरोत्पाद क्लेशादिदोषदूषितबोधसंततिविच्छेद इति माध्य-
मिका: ३ पुनर्भावनाप्रकर्षपरिलब्धपरिशुद्धचित्तसंतान इति
योगाचाराः ४ प्रलोननिखिलोपाधेः क्षेत्रज्ञस्य सततोगति -
रिति जैना: ५ आनन्दमयपरमात्मनि जीवात्मलय इति
त्रिदण्डिनः ६ जीवस्य लिङ्गशरीरापगम इति भास्करीयाः ७
अक्षयशरीरादिलाभः ८ विष्णुभक्तिधर्माचरणाद्विष्णुलोकग-
मनं वेति वैष्णवाः ९ सर्वकर्तृत्वमेकं विहाय वासुदेवस्य
सर्वज्ञत्वादीनां कल्याणगुणानामाप्तिमत्त्वे सति भगवद्याथा-
त्म्यानुभव इति रामानुजीयाः १० जगत्कर्तृत्व, लक्ष्मीपतित्व,
श्रीवत्सवर्जं भगवज्ज्ञानायत्तनिर्दुःखपूर्णसुखमिति माध्वाः ११
द्विभुजकृष्णेन सह स्वांशभूतानां जीवानां गोलोके लीलानु-
भव इति वल्लभीयाः १२ पारमैश्वर्यप्राप्तिरिति माहेश्वराः १३
-