This page has been fully proofread once and needs a second look.

१०२ [मीमां]
 
* सर्वलक्षणसङ्ग्रहः
 
<bold>मिथ्यात्वं-</bold> निःस्वरूपत्वमिति बौद्धाः १ कालासम्बन्धित्वमिति

नै० २ शानबाध्यत्वमिति विवरणे ३ अध्यासविषयत्वम् ४

ब्रह्मभिन्नत्वमिति परिमले ५ प्रतिपन्नोपाधौ त्रैकालिकनिषेध-

प्रतियोगित्वम् । असद्व्या वर्तनाय प्रतिपन्नोपाधाविति वि

शेषणम्, श्प्रागभावादि प्रतियोगित्वमादायांशतः सिद्धसाधनवा-

रणाय त्रैकालिकेति ६ ज्ञाननिवर्त्यत्वे सति ज्ञाना (तिरिक्ता-

निवर्त्यत्वम् ७ ) घटितसामध्ग्र्यनिवर्त्यत्वम् । आत्मन्यतिव्याप्ति-

वारणाय सत्यन्तम्, घटं नाशयामीति ज्ञानपूर्वकं मुद्गरपाता-

दिना तन्नाशदर्शनात्तद्वारणाय विशेष्यम् ८ असत्त्वाविशेषेपि

कदाचित्प्रतीयमानत्वम् । गगनकमलादावतिन्याप्तिवारणाय

कदाचिदिति मुक्तावल्याम् ९ स्वानधिकरणानधिकरणात्य-

न्ताभावप्रतियोगित्वमिति तत्त्ववित्रेवेके १० स्वाश्रयत्वेनाभिम-

तयावन्निष्टात्यन्ताभावप्रतियोगित्वम् । अभिमतपदमसंभव-

वारणाय, यावत्पदमर्थान्तरवारणायेति परिभाषायाम् ११

अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माहमद्वयम् अत्र प्रमाणं

वेदान्ता गुरवोनुभवस्तथा ।
[ शरीरप्रापकं

<bold>
मिश्रितकर्ममध्यमं-</bold> स्वाश्रमोचितकाम्यकर्मानुष्ठानादि योग्य-

<bold>
मिश्रितकर्मसामान्यं-</bold>चाण्डालव्याधाद्यमशरीरप्रापकम् ।

<bold>
मिश्रितकर्मोत्कृष्टं -</bold> निष्काम कर्मानुष्ठानादियोग्यशरीरप्रापकम्

<bold>
मीमांसा-</bold> विचारपूर्वकतत्त्वनिर्णयः *१वेद (वाक्यविचार: २) ।र्थ -
 
*