This page has not been fully proofread.

१०२ [मीमां]
 
* सर्वलक्षणसङ्ग्रहः
 
मिथ्यात्वं निःस्वरूपत्वमिति बौद्धाः १ कालासम्बन्धित्वमिति
नै० २ शानबाध्यत्वमिति विवरणे ३ अध्यासविषयत्वम् ४
ब्रह्मभिन्नत्वमिति परिमले ५ प्रतिपन्नोपाधौ त्रैकालिकनिषेध-
प्रतियोगित्वम् । असव्या वर्तनाय प्रतिपन्नोपाधाविति वि
शेषणम्, श्रागभावादि प्रतियोगित्वमादायांशतः सिद्धसाधनवा-
रणाय त्रैकालिकेति ६ ज्ञाननिवर्त्यत्वे सति ज्ञाना (तिरिक्ता-
निवर्त्यत्वम् ७ ) घटितसामध्यनिवर्त्यत्वम् । आत्मन्यतिव्याप्ति-
वारणाय सत्यन्तम्, घटं नाशयामीति ज्ञानपूर्वकं मुद्गरपाता-
दिना तन्नाशदर्शनात्तद्वारणाय विशेष्यम् ८ असत्त्वाविशेषेपि
कदाचित्प्रतीयमानत्वम् । गगनकमलादावतिन्याप्तिवारणाय
कदाचिदिति मुक्तावल्याम् ९ स्वानधिकरणानधिकरणात्य-
न्ताभावप्रतियोगित्वमिति तत्त्ववित्रेके १० स्वाश्रयत्वेनाभिम-
तयावन्निष्टात्यन्ताभावप्रतियोगित्वम् । अभिमतपदमसंभव-
वारणाय, यावत्पदमर्थान्तरवारणायेति परिभाषायाम् ११
अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माहमद्वयम् अत्र प्रमाणं
वेदान्ता गुरवोनुभवस्तथा ।
[ शरीरप्रापकं
मिश्रितकर्ममध्यमं स्वाश्रमोचितकाम्यकर्मानुष्ठानादि योग्य-
मिश्रितकर्मसामान्यं-चाण्डालव्याधाद्यघमशरीरप्रापकम् ।
मिश्रितकर्मोत्कृष्टं - निष्काम कर्मानुष्ठानादियोग्यशरीरप्रापकम्
मीमांसा विचारपूर्वकतत्त्वनिर्णयः ॐ१वेद (वाक्यविचार: २) ।र्थ -
 
*