This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः * [मित्र ] १०१
 
J
 
सति भारतम् ३ 'भारत' लक्षणमप्यत्र पठनीयम् ॥२२७८॥

<bold>
महामोहः-</bold> प्राम्यभोगसुखैषणा *१ साधनरहितस्यापि सर्व-

सुखजातीयं मे भूयादिति विपर्ययविशेषः ॥ २२८०

<bold>
महावाक्यं-</bold> महद्वाक्यम् १परस्परसंबद्धार्थकवाक्यम्२वाक्यस-

मुदायरूपत्वे सत्येकवाक्यमिति मी० ३ जीवब्रह्मैक्यबोधकवाक्यं

<bold>
महाविद्यानुमानत्वं -</bold>पक्षे प्रकारान्तरेण साध्योपसंहारशा-

लित्वे सति दृष्टान्ते प्रकारान्तरेण साध्योपसंहारशालित्वम् ।

<bold>
मात्रा-</bold> हस्ववर्णोच्चारणकालः * १ स्वजानुमण्डल पाणिना त्रि:-

परामृश्यच्छोटिकावच्छिन्नः कालः ॥ २२८७ ॥
 
20
 

<bold>
मानसजपः -</bold> जिह्वौष्ठादिव्यापाररहितं शब्दार्थयोश्चिन्तनम् ।

<bold>
मानः-</bold> पुरुषान्तरेण संपादितः सत्कारः १ सर्वत्राप्रणतिभावः <error>२२९०
</error><fix>॥२२९०॥</fix>
<bold>
मानित्वं-</bold> विद्यमानैरविद्यमानैर्वा गुणैरात्मनः श्लाघनम् <error>॥२२९१
</error><fix>॥२२९१॥</fix>
<bold>
माया परव-</bold> परवञ्चनेच्छा १ हृदयेन्यथा कृत्वा बहिरन्यथा व्यवहर-

णम् २रजस्तमोनभिभूतशुद्धसत्त्वप्रधाना३ अघटित घटिका

शक्तिः ४ निरूपयितुमशक्यत्वे सति विस्पष्टं भासमाना । आ-

त्मन्यतिव्याप्तिवारणाय सत्यन्तम् ५ स्वाश्रयाव्यामोहकरत्वे

सतीतरव्यामोहकारणत्वं मायात्वम् ६ विपरीतप्रवृत्तिहेतुत्वे सति

विषयोपादानत्वे सति विक्षेपशक्तिप्रधानत्वम् ॥ २२९८ ॥

<bold>
मित्रम्-</bold> मिनोति मानं करोतीति १ प्रत्युपकारमनपेक्ष्य स्नेहेनो-

पकारक: २ सर्वविषयेष्वेककार्यकर्तेति मंग्रं० ॥ २३०१ ॥
 
GOVER
 
BUEN