This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः * [मित्र ] १०१
 
J
 
सति भारतम् ३ 'भारत' लक्षणमप्यत्र पठनीयम् ॥२२७८॥
महामोहः प्राम्यभोगसुखैषणा ऋ१ साधनरहितस्यापि सर्व-
सुखजातीयं मे भूयादिति विपर्ययविशेषः ॥ २२८० ॥
महावाक्यं महद्वाक्यम् १परस्परसंबद्धार्थकवाक्यम्२वाक्यस-
मुदायरूपत्वे सत्येकवाक्यमिति मी० ३ जीवब्रह्मैक्यबोधकवाक्यं
महाविद्यानुमानत्वं पक्षे प्रकारान्तरेण साध्योपसंहारशा-
लित्वे सति दृष्टान्ते प्रकारान्तरेण साध्योपसंहारशालित्वम् ।
मात्रा-हस्ववर्णोच्चारणकालः * १ स्वजानुमण्डल पाणिना त्रि:-
परामृश्यच्छोटिकावच्छिन्नः कालः ॥ २२८७ ॥
 
20
 
मानसजपः - जिह्वौष्ठादिव्यापाररहितं शब्दार्थयोश्चिन्तनम् ।
मानः-पुरुषान्तरेण संपादितः सत्कारः १ सर्वत्राप्रणतिभावः २२९०
मानित्वं विद्यमानैरविद्यमानैर्वा गुणैरात्मनः श्लाघनम् ॥२२९१
माया परवचनेच्छा १ हृदयेन्यथा कृत्वा बहिरन्यथा व्यवहर-
णम् २रजस्तमोनभिभूतशुद्धसत्त्वप्रधाना३ अघटित घटिका
शक्तिः ४ निरूपयितुमशक्यत्वे सति विस्पष्टं भासमाना । आ-
त्मन्यतिव्याप्तिवारणाय सत्यन्तम् ५ स्वाश्रयाव्यामोहकरत्वे
सतीतरव्यामोहकारणत्वं मायात्वम् ६ विपरीतप्रवृत्तिहेतुत्वे सति
विषयोपादानत्वे सति विक्षेपशक्तिप्रधानत्वम् ॥ २२९८ ॥
मित्रम्-मिनोति मानं करोतीति १ प्रत्युपकारमनपेक्ष्य स्नेहेनो-
पकारक: २ सर्वविषयेष्वेककार्यकर्तेति मं० ॥ २३०१ ॥
 
GOVER
 
BUEN