This page has been fully proofread once and needs a second look.

<bold>दोषत्वमुज्ज्वलगुणा अपि यान्ति येषु
तैरुन्नतेः किमथवेह तिरस्कृतेः किम् ।
दोषोऽपि येषु गुणतामुपयाति भूयाँ-
स्तेभ्यो नमोऽस्तु सततं भुवि सज्जनेभ्यः ॥ ८ ॥</bold>
ननु किमर्थं लक्षणसङ्ग्रहारम्भो लक्षणानामनुपयोगादिति
चेदुच्यते, अस्ति हि महानुपयोगः तथाहि — यथा विवाहे
सलक्षणो वरो लक्षणवतीं कन्यामुपयच्छेतेति ।
 
<bold>अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत्,
एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः ।</bold>
इत्यादिवचनैः स्त्रीपुंससामुद्रिकलक्षणानां विवाह उपयोगात् ।
<bold>लिङ्गं सलक्षणं पूज्यं त्यजेल्लिङ्गमलक्षणम्,
तस्मात्सर्वप्रयत्नेन लिङ्गं कुर्यात्सलक्षणम् ।</bold>
इत्यादिवचनैर्लिङ्गलक्षणानां तत्पूजादावुपयोगात्, एवमन्येषा-
मपि लक्षणानां यथासंभवमुपयोगाद्युक्त एव लक्षणसङ्ग्रहारम्भ
इति । लक्षणानामुपयोग: पूर्वाचार्यैरपि दर्शितः, तथाहि
<bold>ऋषयोऽपि पदार्थानां नान्तं यान्ति <flag>पृथत्कशः,</flag>
लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः ।</bold>
किञ्च, लक्षणप्रमाणाभ्यां वस्तुसिद्धिर्न तु प्रतिज्ञामात्रेणेति
न्यायादपि पदार्थलक्षणमवश्यमपेक्षणीयम् !, तत्र प्रमाणं
विहाय लक्षणानि निरूपयाम इति ।