This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
दोषत्वमुज्ज्वलगुणा अपि यान्ति येषु

तैरुन्नतेः किमथवेह तिरस्कृतेः किम् ।

दोषोऽपि येषु गुणतामुपयाति भूयाँ-

स्तेभ्यो नमोऽस्तु सततं भुवि सज्जनेभ्यः ॥ ८ ॥

ननु किमर्थं लक्षणसङ्ग्रहारम्भो लक्षणानाम नुपयोगादिति

चेदुच्यते, अस्ति हि महानुपयोगः तथाहि — यथा विवाहे

सलक्षणो वरो लक्षणवर्तीतीं कन्यामुपयच्छेतेति ।
 

 
अविद्रुप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत्,

एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः ।

इत्यादिवचनैः स्त्रीपुंससानुद्रिकलक्षणानां विवाह उपयोगात् ।

लिङ्गं सलक्षणं पूज्यं त्यजेल्लिङ्गमलक्षणम्,

तस्मात्सर्वप्रयत्नेन लिङ्गं कुर्यात्सलक्षणम् ।

इत्यादिवचनैर्लिङ्ग लक्षणानां तत्पूजादावुपयोगात्, एवमन्येषा-

मपि लक्षणानां यथासंभवमुपयोगाद्युक्त एव लक्षणसङ्ग्रहारम्भ

इति । लक्षणानामुपयोग: पूर्वाचार्यैरपि दर्शितः, तथाहि

ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथक्कशः,

लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः ।

किञ्च, लक्षणप्रमाणाभ्यां वस्तुसिद्धिर्न तु प्रतिज्ञामात्रेणेति

न्यायादपि पदार्थलक्षणमवश्यमपेक्षणीयम् !, तत्र प्रमाणं

विहाय लक्षणानि निरूपयाम इति ।
 

 
B
 

 

 

 
maanind