This page has not been fully proofread.

९८ [मत]
 
* सवलक्षणसङ्ग्रह *
 
प्ययं शूर' इति १ प्रमाणान्तर (परिप्राप्तार्थाभिधायित्वम् २) वि-
रोधतत्प्राप्तिरहितार्थबोधकोऽर्थवादः,
वज्रमुदयच्छदित्यादिः ॥ २१९८ ॥
 
यथा इन्द्रो वृत्राय
 
भूमिका वेशान्तरपरिग्रहः १ ग्रन्थाभासः २ प्रयोजनसंपादिका
युक्तिः। अन्य रूपेऽन्य प्रवेश इति नाटकज्ञाः ४ चित्तस्यावस्थावि-
शेष इति योगिनः५हर्म्या देरुत्तरोत्तरभूमिवज्ज्ञानस्यावस्थाविशेष:
भेदः - विदारणम् १पृथक्करणमिति ग्रं० २अन्योन्याभावत्वं भेदत्वं
भेदकः -मैत्रीनाशकः* १ विदारणानुकूलव्यापाराश्रयः २२०७
भेदाभावः- मानाभावादयुक्तेश्च न भिदेश्वरजीवयोः, जीवा-
नामचितां चैव नात्मनो न परस्परमिति भेदधिक्कारे ।
भोक्ता - सुखदुःखा कारवृत्त्युपहितं चैतन्यम् ॥ २२०८ ॥
भोगः-विभवभेदः * १ सुखदुःखान्यतरसाक्षात्कारः ॥२२१०॥
भोग्यं सुखदुःखान्यतरसाक्षात्कारिज्ञान विषयः (= सुखादिः) ।
भोजनम् - कठिनद्रव्यस्य गलबिलाघःसंयोजनम् ॥ २२१२ ॥
भ्रमः-
विपरीतनिर्णयः * १ विसंवादिज्ञानम् २ अतस्मिंस्त-
(ग्रह: ३)द्बुद्धिरिति पं० ४निष्फलप्रवृत्तिजनको बोधः ॥ २२१७ ॥
 
G
 
* म X
 
मङ्गलं-अभीष्टार्थसिद्धिः १ विघ्नविनाशनानुकूलव्यापार विशिष्टत्वं
मज्जलत्वम् २ समाप्तिप्रतिबन्ध की भूतदुरितविशेषविघातकत्वम्
मतं-संमतम्न अभिप्रेतज्ञानं वा २ निषेधवाचकशब्दः ॥२२२३॥