This page has been fully proofread once and needs a second look.

<bold>भाष्यं -</bold> सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः, स्व-
पदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः । सागरा-
दिवर्णनस्य भाष्यत्वव्यावृत्तये सूत्रार्थेति, पदवृत्तिव्यावृत्तये
वाक्यैरिति, वार्तिकस्य तत्त्वनिरासाय सूत्रानुसारीति,
वृत्तेस्तत्त्वव्यावृत्त्यर्थं स्वपदानीति पाराशरपुराणे <error>२१७७</error><fix>॥२१७७॥</fix>
<bold>भिक्षा-</bold> ग्रासमात्रं (न्नम् १ ) भवेद्भिक्षा पुष्कलन्तु चतुर्गुणम्, पुष्क-
लानि च चत्वारि हन्तकारी विधीयते २ अष्टौ ग्रासा मुनेर्भक्ष्याः
षोडशारण्यवासिनाम्, द्वात्रिंशत्तु गृहस्थस्य यथेष्टं ब्रह्मचारिणां
<bold>भिक्षुः-</bold> भिक्ष (ते इति १) पजीवी २ भिक्ष (णशील: ३) कारको
वा ४ चतुर्थाश्रमी ५ यतिश्च ब्रह्मचारी च विद्यार्थी गुरुपो-
षकः, अध्वगः क्षीणवृत्तिश्च षडेते भिक्षवः स्मृताः ।
<bold>भिन्नत्वं-</bold> प्रस्फुटितत्वम् * १ भेदा (धिकरणत्वम् २) नुयोगित्वम् ।
<bold>भूतत्वं-</bold> बहिरिन्द्रियग्रह्यविशेषगुणवत्त्वम् । आत्मन्यतिव्याप्ति-
वारणाय बहिःपदम्, कालादावतिव्याप्तिवारणाय विशेषेति,
द्रव्यत्ववारणाय गुणेति १ अन्यतत्त्वानुसन्धानकालत्वम् <error>२१९१</error><fix>॥२१९१॥</fix>
<bold>भूतकालः-</bold> प्रारब्धपरिसमाप्तक्रियाश्रयः १ सूर्यपरिस्पन्दादि-
कियाध्वंसावच्छिन्नः कालः २वर्तमानध्वंसप्रतियोगी ॥२१९४ ॥
<bold>भूतप्रतिबन्धः-</bold> पूर्वानुभूतविषयस्यावशेन पुनः पुनः स्मरणम्
<bold>भृतार्थवादः -</bold> तत्काले तद्गुणज्ञापकः शब्दः, यथा 'जरायाम-