This page has not been fully proofread.


 
* सर्वलक्षणसङ्ग्रहः *
 
[भूता] ९७
 
<bold>भाष्यं -</bold> सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः, स्व-

पदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः । सागरा-

दिवर्णनस्य भाष्यत्वव्यावृत्तये सूत्रार्थेति, पदवृत्तिव्यावृत्तये

वाक्यैरिति, वार्तिकस्य तत्त्वनिरासाय सूत्रानुसारीति,

वृत्तेस्तत्त्वव्यावृत्त्यर्थं स्वपदानीति पाराशरपुराणे <error>२१७७
</error><fix>॥२१७७॥</fix>
<bold>
भिक्षा-प्</bold> ग्रासमात्रं ([न्नम् १ ) भवेद्भिक्षा पुष्कलन्तु चतुर्गुणम्, पुष्क-

लानि च चत्वारि हन्तकारी विधीयते २ अौअष्टौ ग्रासा मुनेर्भक्ष्याः

षोडशारण्यवासिनाम्, द्वात्रिंशत्तु गृहस्थस्य यथेष्टं ब्रह्मचारिणां

<bold>
भिक्षुः --</bold> भिक्ष (ते इति १) रोपजीवी २ भिक्ष (णशील: ३) कारको

वा ४ चतुर्थाश्रमी ५ यतिश्च ब्रह्मचारी च विद्यार्थी गुरुपो-

षकः, अध्वगः क्षीणवृत्तिश्च षडेते भिक्षवः स्मृताः ।

<bold>
भिन्नत्वं-</bold> प्रस्फुटितत्वम् * १ भेदा (धिकरणत्वम् २) नुयोगित्वम् ।

<bold>
भूतत्वं-</bold> बहिरिन्द्रियप्रात्ग्रह्यविशेषगुणवत्त्वम् । आत्मन्यतिव्याप्ति-

वारणाय बहिःपदम्, कालादावतिव्याप्तिवारणाय विशेषेति,

द्रव्यत्ववारणाय गुणेति १ अन्यतत्त्वानुसन्धानकालत्वम् <error>२१९१
</error><fix>॥२१९१॥</fix>
<bold>
भूतकालः-</bold> प्रारब्धपरिसमाप्तक्रियाश्रयः १ सूर्यपरिस्पन्दादि-
"

कियाध्वंसावच्छिन्नः कालः २वर्तमानध्वंसप्रतियोगी ॥२१९४ ॥

<bold>
भूत प्रतिबन्धः-
</bold> पूर्वानुभूतविषयस्यावशेन पुनः पुनः स्मरणम्

<bold>
भृतार्थवादः -</bold> तत्काले तद्गुणज्ञापकः शब्दः, यथा 'जरायाम-
,