This page has not been fully proofread.

९६ [भाषा]
 
* सवलक्षणसङ्ग्रहः *
 
तत्त्वमसीत्यादिवाक्ये सर्वज्ञत्वाल्पज्ञत्वादिविरुद्धांशपरित्यागेन
चिन्मात्रयोरभेदः १ शक्यतावच्छेदकपरित्यागेन
 
व्यक्तिमा-
त्रबोधप्रयोजिका लक्षणा ॥ २१५४ ॥
भारतं - भरतवंश्यानधिकृत्य कृतो लक्षश्लोकात्मको ग्रन्थः २१५५
भारतवर्षम् - उत्तरेण समुद्रस्य हिमाद्रेश्चैव दक्षिणे, वर्ष
तद्भारतं नाम भारती यत्र सन्ततिः ॥ २१५६ ॥
भावः - अन्तर्निगूढेच्छा * १ क्रियानिर्वय योऽर्थः क्रियैव वा २
क्रियायाः फलम्, यथा ओदनं पर्चात देवदत्तः ३ अपरिस्पन्द -
नसाधनसाध्यो धात्वर्थ इति ग्रं० ४ प्रतियोगिनिरूपणानपेक्षनि-
रूपणकः ५ समवायैकार्थसमवायान्यतरसंबन्धेन सत्तावानिति
नै० ६ विधिमुखप्रतीतिविषय इति वे० ।
 
०४
 
[पारः
 
भावना- फलानुकूलव्यापारः१ भवितुर्भवनानुकूलो भावरितुर्व्या-
भावनासंस्कारः-जन्यज्ञानजन्यसंस्कार इति नवीनाः १ पूर्वा-
नुभवजन्यः स्मृतिहेतु: संस्कारः । आत्मा दिवारणाय प्रथमद-
लम्, अनुभवध्वंसवारणाय द्वितीयदलम् ॥ २१७७ ॥
भाविकालः) सूर्यपरिस्पन्दादि क्रियाप्रागभावावच्छिन्नः का.
भविष्यत्वं - ) लः १ वर्तमानप्रागभावप्रतियोगित्वम् २१७१
भाषणम्-यत्कि (ञ्चिज्) श्चज्ञानानुकूलशब्दप्रयोगः ॥२१७२॥
भाषा-प्रतिज्ञासूचिका १ तत्तद्देशस्थजनवर्तन निर्वाहकवाक्यमि-
ति ग्रं० २ मनोभावव्यञ्जकोवर्णात्मकः शब्दः ३ भाष्यतेऽनयेति
 
-