This page has been fully proofread once and needs a second look.

९४ [ब्रह्म]
 
** सवलक्षणसङ्ग्रहः *
 
सति औपाधिकपरिच्छेदरहितत्वमिति सङ्क्षेपशारीरके १

उपाध्यनन्तर्गतत्वे सत्युपाध्यन्तर्गतरूपाभिन्नबहिःस्थितत्वम् ।

<bold>
बुद्धिः -</bold> निश्चयात्मिकान्तःकरणवृत्तिः *१ जानामीत्यनुव्यवसा-

<bold>
बृंहणत्वं-</bold> शरीरवृद्ध्यादिहेतुत्वम् ।
 
[यविषयगुण:
 

<bold>
बौद्धः -</bold> बुद्धितत्त्वे व्यवस्थितः १ बुद्धमतावलम्बित्वं बौद्धत्वम् ।

<bold>
ब्रह्म-</bold> निरवच्छिन्नचैतन्यम् १ निखिलनामरूपात्मकप्रपञ्चाकारेण

परिणममानमायाधिष्ठानमिति ग्रं० २ बृहत्त्वं बृंबृहणत्वं वा ।

<bold>
ब्रह्मचर्य -</bold> उपस्थसंयमः १ अष्टांटा[^१]ङ्गमैथुनवर्जनम् २ कायेन मनसा

वाचा सर्वावस्थासु सर्वदा, सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रचक्षते

<bold>
ब्रह्मज्ञानं-</bold> त्रिगुणावच्छिन्नातीततुरीयशुद्धचैतन्यविषयकज्ञानम्
 

<bold>
ब्रह्मणस्तटस्थलक्षणं-</bold> उत्पत्तिस्थितिलयकारणत्वम् १भूतोपा-

दानत्वे सति कर्तृत्वम् । कुलालादावतिव्याप्तिपरिहाराय भूते-

ति, मायायामतिव्याप्तिनिवृत्तये कत्रिंर्त्रिति २ निखिलजग (दुपा-

दानगोचरापरोक्षज्ञान चिकीर्षाकृत्याश्रयत्वम् ३) दभिन्ननिमि-

त्
तोपादानत्वम् । शुक्त्यवच्छिन्नचैतन्येऽतिव्याप्तिवारणाय नि-
-
 

[^
१ स्त्रिया दर्शनं (= रागपूर्वकं रूयादि विषयकज्ञानम् १) स्पर्शनं

(=रागपूर्वकं क्रियाविशेषजन्यं ज्ञानम् २)केलिः: (रागपूर्वकः परिहासा-

दिव्यवहार:३) कीर्तनं.(= रूयादेर नुराग पूर्वकं सौंदर्यादिवर्णनम् ४ )

गुह्यभाषणं (= रागपूर्वकं रहसि संभाषणम्५) सङ्कल्पः(=इयं मे स्या-

दिति६ ) अध्यवसाय: (=अनया 'रं स्ये'

रमिष्ये इति निश्चयः ७) क्रिया-

निवृत्तिः (= सुरतसिद्धिरनुभवविशेषो वा८ ) चेत्यष्टौ मैथुनस्याङ्गानि
 
]