This page has not been fully proofread.

९४ [ब्रह्म]
 
** सवलक्षणसङ्ग्रहः *
 
सति औपाधिकपरिच्छेदरहितत्वमिति सङ्क्षेपशारीरके १
उपाध्यनन्तर्गतत्वे सत्युपाध्यतर्गतरूपाभिन्नबहिःस्थितत्वम् ।
बुद्धिः - निश्चयात्मिकान्तःकरणवृत्तिः *१ जानामीत्यनुव्यवसा-
बृंहणत्वं शरीरवृद्ध्यादिहेतुत्वम् ।
 
[यविषयगुण:
 
बौद्धः - बुद्धितत्त्वे व्यवस्थितः १ बुद्धमतावलम्बित्वं बौद्धत्वम् ।
ब्रह्म-निरवच्छिन्नचैतन्यम् १ निखिलनामरूपात्मकप्रपञ्चाकारेण
परिणममानमायाधिष्ठानमिति ग्रं० २ बृहत्त्वं बृंहणत्वं वा ।
ब्रह्मचर्य - उपस्थसंयमः १ अष्टांङ्गमैथुनवर्जनम् २ कायेन मनसा
वाचा सर्वावस्थासु सर्वदा, सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रचक्षते
ब्रह्मज्ञानं- त्रिगुणावच्छिन्नातीततुरीयशुद्धचैतन्यविषयकज्ञानम्
 
ब्रह्मणस्तटस्थलक्षणं-उत्पत्तिस्थितिलयकारणत्वम् १भूतोपा-
दानत्वे सति कर्तृत्वम् । कुलालादावतिव्याप्तिपरिहाराय भूते-
ति, मायायामतिव्याप्तिनिवृत्तये कत्रिंति २ निखिलजग (दुपा-
दानगोचरापरोक्षज्ञान चिकीर्षाकृत्याश्रयत्वम् ३) दभिन्ननिमि-
तोपादानत्वम् । शुक्त्यवच्छिन्नचैतन्येऽतिव्याप्तिवारणाय नि-
-
 
१ स्त्रिया दर्शनं (= रागपूर्वकं रूयादि विषयकज्ञानम् १) स्पर्शनं
(=रागपूर्वकं क्रियाविशेषजन्यं ज्ञानम् २)केलिः: (रागपूर्वकः परिहासा-
दिव्यवहार:३) कीर्तनं.(= रूयादेर नुराग पूर्वकं सौंदर्यादिवर्णनम् ४ )
गुह्यभाषणं (= रागपूर्वकं रहसि संभाषणम्५) सङ्कल्पः(=इयं मे स्या-
दिति६ ) अध्यवसाय: (=अनया 'रं स्ये'
रमिष्ये इति निश्चयः ७) क्रिया-
निवृत्तिः (= सुरतसिद्धिरनुभवविशेषो वा८ ) चेत्यष्टौ मैथुनस्याङ्गानि