This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
[बिम्ब] ९३
 
॥२९०५॥
 
<bold>बलं-</bold> साधनसामग्री १ विचित्रकार्यानुकूलशक्तित्रो
॥२९०५॥
<bold>
बलवत्त्वं-</bold> बलविशिष्टत्वम् १ कार्यसिद्धि प्राक्कालिक प्राप्तिकर्तृत्वम् ।

<bold>
बहिरङ्गं-</bold> परनिमित्तकम् १ बहिः प्रकृतेर्बाह्यमनं यस्य ङ्ग यस्य <error>२०९९
</error><fix>॥२०९९॥</fix>
<bold>
बहिर्मुखं -</bold> बहिः बाह्यविषये मुखं प्रवणता यस्य ॥ २१०० ॥

<bold>
बहुव्रीहिसमासः -</bold> अन्य पदार्थप्रधानः समासः २ संबन्धि-

लाक्षणिकत्वव्याप्योत्तरपदकसमासः ॥ २१०२ ॥

<bold>
बहूदक:-</bold> बहूनि उदकानि शौचाङ्गतया यस्य ॥ २१०३ ॥

<bold>
बाधः -</bold> अर्थासङ्गतिः *१ अपरोक्षमिथ्यात्वनिश्चयः २सविलासा-

विद्यानिवृत्तिरिति ग्रं ३ प्रतीतार्थं परित्यज्यान्यार्थंकल्पनमित्य -

द्वैतदीपिकायाम् ४ पूर्वप्रत्ययस्य व्यधिकरणप्रकारकत्वनि-

श्चयः ५ पक्षनि (ष्ठः साध्याभावः ६ ) ष्ठप्रमाविषयत्वप्रकारा-

भावप्रतियोगिसाध्यक इति नै० ॥ २१११ ॥

<bold>
बाधसामानाधिकरण्यं-</bold> अन्यतरस्य बाधेन सामानाधिक-

रण्यम्, यथाऽभासवादिमतेऽन्तःकरणप्रतिविम्बितस्य जीवस्य

बाधेन ब्रह्मणा सामानाधिकरण्यम्(=अभेदः), यथा वा जगतो

बाधेन 'सर्वं खल्विदं ब्रह्मेत्यादिश्रुत्युक्तं जगतो ब्रह्मणा सामा

<bold>
बालः -</bold> शास्त्रार्थज्ञान विवेकशून्यः १ अधीतकाव्यको शव्याकरणा-

नधीतवेदान्तशास्त्रः । कणादादावतिव्याप्तिवारणायानधीत-

वेदान्तेति, स्तनन्धयेऽतिप्रसक्तिवारणायाधीतकाव्येति ।

<bold>
बिस्वत्वं-</bold> उपाधिनिमित्तस्त्रप्रतियोगिकव्याप्यवृत्तिभेदाश्रयत्वे