This page has been fully proofread once and needs a second look.

९२ [बन्धु]
 
<bold>* सवलक्षणसङ्ग्रहः *

 
</bold>
<bold>
फलं-</bold> प्रकरणप्रतिपाद्यस्य श्रूयमाणं तज्ज्ञानात्तत्प्राप्तिप्रयोजनम्,

यथा अथ सम्पत्स्य इत्यद्वितीयज्ञानात्तत्संपत्तिरूपं फलम् १

ससाधनसुखदुःखोपभोगः २ व्यापारजन्यत्वं फलत्वम् ३ स्व-

कर्तव्यताप्रयोजकेच्छाविषयत्वम्
[भिव्यक्तं चैतन्यं
 
}
 

<bold>
फलचैतन्यं-</bold> ज्ञातं घटाद्यवच्छिन्नं चैतन्यम् १ अन्तःकरणवृत्त्य

<bold>
फलव्याप्तिः - )</bold> स्वाकारवृत्तिप्रतिबिम्बित चैतन्यविषयत्वम् १

<bold>
फलव्याप्यत्वं -)</bold> वृत्तिबिम्बितचिदभिव्यक्त चैतन्याश्रयत्वम् ।

<bold>
फलोपकार्यङ्गं-</bold> यागाङ्गद्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म १

स्वव्यापारातिरिक्तव्यवधानराहित्येन प्रधानोपकारकम्, यथा

प्रयाजादि अदृष्टरूपेण स्वव्यापारमात्रेण प्रधानयागस्य <error>२०८२
</error><fix>॥२०८२॥</fix>
<bold>
फलोपधायकत्वं-</bold> कार्याव्यवहितपूर्ववृत्तित्वसम्बन्धेन फल-

विशिष्टत्वम्, यथा कुलालहस्तस्थदण्डे ॥ २०८३ ॥
 
>
 

<bold>*

 
*</bold>
<bold>
बन्धः -</bold> आत्मनोऽज्ञानतत्कार्यसम्बन्धः १ सत्यत्वेन ज्ञायमानो

दृश्यसंबन्धः * २ अणिमाद्यष्टैश्वर्याशासिद्धसङ्कल्पः ३ देवमनु-
ध्

ष्
याद्युपासनाकाम सङ्कल्पो वा ४ यमाद्यायष्टाङ्गयोगसङ्कल्पो वा ५

वर्णाश्रमधर्मकर्मसङ्कल्पो वा ६ यागव्रततपोदानविधिविधानज्ञा-

नसंभवः *७केवलमोक्षापेक्षासङ्कल्पः ८ सङ्कल्पमात्रसंभवो वा ।

<bold>
बन्धुः -</bold> संबन्धेनोपकर्ता १ विच्छेदासह्यक इति पंग्रं० ॥२०९३॥