This page has not been fully proofread.

९२ [बन्धु]
 
* सवलक्षणसङ्ग्रहः *

 
फलं प्रकरणप्रतिपाद्यस्य श्रूयमाणं तज्ज्ञानात्तत्प्राप्तिप्रयोजनम्,
यथा अथ सम्पत्स्य इत्यद्वितीयज्ञानात्तत्संपत्तिरूपं फलम् १
ससाधनसुखदुःखोपभोगः २ व्यापारजन्यत्वं फलत्वम् ३ स्व-
कर्तव्यताप्रयोजकेच्छाविषयत्वम् ।
[भिव्यक्तं चैतन्यं
 
}
 
फलचैतन्यं ज्ञातं घटाद्यवच्छिन्नं चैतन्यम् १ अन्तःकरणवृत्त्य
फलव्याप्तिः - ) स्वाकारवृत्तिप्रतिबिम्बित चैतन्यविषयत्वम् १
फलव्याप्यत्वं ) वृत्तिबिम्बितचिदभिव्यक्त चैतन्याश्रयत्वम् ।
फलोपकार्यङ्गं यागाङ्गद्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म १
स्वव्यापारातिरिक्तव्यवधानराहित्येन प्रधानोपकारकम् यथा
प्रयाजादि अदृष्टरूपेण स्वव्यापारमात्रेण प्रधानयागस्य २०८२
फलोपधायकत्वं कार्याव्यवहितपूर्ववृत्तित्वसम्बन्धेन फल-
विशिष्टत्वम्, यथा कुलालहस्तस्थदण्डे ॥ २०८३ ॥
 
>
 

 
बन्धः - आत्मनोऽज्ञानतत्कार्यसम्बन्धः १ सत्यत्वेन ज्ञायमानो
दृश्यसंबन्धः * २ अणिमाद्यष्टैश्वर्याशासिद्धसङ्कल्पः ३ देवमनु-
ध्याद्युपासनाकाम सङ्कल्पो वा ४ यमाद्यायोगसङ्कल्पो वा ५
वर्णाश्रमधर्मकर्मसङ्कल्पो वा ६ यागवततपोदानविधिविधानज्ञा-
नसंभवः ७केवलमोक्षापेक्षासङ्कल्पः ८ सङ्कल्पमात्रसंभवो वा ।
बन्धुः - संबन्धेनोपकर्ता १ विच्छेदासह्यक इति पं० ॥२०९३॥