2023-03-15 07:09:54 by kartikbhagwat94@gmail.com
This page has been fully proofread once and needs a second look.
ॐ
<bold>सर्वतन्त्रसिद्धान्तपदार्थलक्षणसङ्ग्रहः ।</bold>
श्रीगणेशाय 'नमः, परमर्षिभ्यः' ।
त्वां विना निःस्वरूपोऽहं मां विनात्वं कथं स्थितः ! ।
दिष्ट्येदानीं मया लब्धो योऽसि सोसि नमोऽस्तुते <error>॥ १ ॥</error><fix>॥ १ ॥</fix>
श्रीचेतनकिङ्कराह्वश्रीमद्रामपुर्याह्वयोः ।
वन्दे पादौ तथा श्रीमद्धीरालालाह्वधीमताम् ॥ २ ॥
श्रद्धाधनेन ग्रथितं गौरीशङ्करभिक्षुणा ।
बोधाय वादिबाधाय विदुषां कण्ठभूषणम् ॥ ३ ॥
क्व ! ग्रन्थकरणं क्व ! त्वमिति मा वित्त पण्डिताः।
सत्सङ्गानुग्रहः किं ? किं ? न करोत्येवमाह वाक् <error>४</error><fix>॥ ४ ॥</fix>
प्रज्ञाशब्दमयस्यास्य देहस्य मम दुर्जनाः ।
दयध्वं प्रहरध्वं तु चेदिष्टं पाञ्चभौतिके ॥ ५ ॥
प्रमाणसिद्धान्तविरूद्वमत्र यत्किञ्चनाभून्मतिमान्द्यदोषात् ।
मात्सर्यमुत्सार्य महानुभावाः प्रसादमाधाय विशोधयन्तु <error>६</error><fix>॥ ६ ॥</fix>
विद्वांसो यदि मम दोषमुग्दिरेयुः यद्वा ते गुणगणमेव कीर्त्तयेयुः ।
तुल्यं तद्बहु मनुते मनो मदीयं कष्टं तद्वन्मनुते यदाह मन्दः ॥७॥
[^१ मन्त्रगुरुज्ञानप्रदगुरुविद्यागुरून्क्रमशो नमस्यति श्री चेतनेत्यादिना ।]