This page has not been fully proofread.


 
Roo
 
सर्वतन्त्र सिद्धान्तपदार्थलक्षणसङ्ग्रहः ।
 
श्रीगणेशाय 'नमः, परमर्षिभ्यः' ।
 
त्वां विना निःस्वरूपो हं मां विना त्वं कथं स्थितः ! ।
दिष्ट्येदानीं मया लब्धो योऽसि सोसि नमोऽस्तुते १
श्रीत्रेतनकिङ्कराहश्रीमद्रामपुर्याह्वयोः ।
 
.
 
वन्दे पादौ तथा श्रीमद्धीरालालावधीमताम् ॥ २ ॥
श्रद्धाधनेन ग्रथितं गौरीशङ्करभिक्षुणा ।
बोधाय वादिबाधाय विदुषां कण्ठभूषणम् ॥ ३ ॥
क्व ! ग्रन्थकरणं क्व ! त्वमिति मा वित्त पण्डिताः
सत्सङ्गानुग्रहः किं ? किं ? न करोत्येवमाह वाक् ४
प्रशाशब्दमयस्यास्य देहस्य मम दुर्जनाः ।
दयध्वं प्रहरध्वं तु चेदिष्टं पाञ्चभौतिके ॥ ५ ॥
प्रमाणसिद्धान्तविरूद्वमत्र यत्किञ्चनाभून्मतिमान्द्यदोपात् ।
मात्सर्यमुत्सार्य महानुभावाः प्रसादमाधाय त्रिशोधयन्तु ६
विद्वांसो यदि मम दोषमुगिरेयुः यद्वा ते गुणगणमेव कीर्त्तयेयुः ।
तुल्यं तद्बहु मनुते मनो मदीयं कष्टं तद्वन्मनुते यदाह मन्दः ॥७॥
१ मत्रगुरुशानप्रदगुरुविद्यागुरूक्रमशो नमस्यति श्री चेतनेत्यादिना ।