2023-09-05 15:28:53 by jayusudindra
This page has been fully proofread once and needs a second look.
र्धरणी न तरुणी । महत्त्वं दर्पेण न कंदर्पेण । अङ्गीकुरु सैन्यं न
दैन्यम् । संपादनीयाः कोशा न क्लेशाः । के वा चिरंतनाः स्त्रीमूलक-
व्यसनेन न लघुतां नीताः । दैत्यारिरपि राक्षसविधिमङ्गीचकार भगवा-
न्गोविन्दः । विना चन्द्रं को वा बुधनन्दनो जातः । मधुपाः कुसुमेषु
सक्ता भवन्ति । मदनासक्तास्तमो विशन्तीति त्वयाप्युक्तमेव किं
तन्मृषा । माररहितो निःश्रीक एव । अपि चेदमपि शृणु या भवतोक्ता
सा प्रायेण वियद्भूपालसुता भवेत् । जानामि तां यस्या मधुपकुलसुख-
प्रश्नचतुरा कुन्तलाली । भुजङ्गस्पृहणीया वेणी दोषाकरानुकारि मुखम् ।
परपुष्टसब्रह्मचारी ध्वनिः। पल्लवैकासिकायोग्योऽधरः । द्विजिह्वसहचारिणी
रोमलता । मातङ्गानुकारि गमनम् । सत्येवं शुद्धो भवात् कथं तस्यां
सक्तः । अस्तु वा तस्यां प्रणयः । विरुद्धचर्ययोः कथं परिणामरमणी-
यता । तदपि शृणु संक्षेपतः । सा दिशो रञ्जयति, त्वं पुनररञ्जयन् ।
सा दृशा रङ्कुकुलद्वेषिणी, त्वमरं कुकुलद्वेषी । सा पुनरलंकारातिसुन्दरी,
त्वं तु लङ्कारातिसुन्दरः इति । अतःपरं यथारुचि समाचर' इति ।
सोऽपि श्रुतमद्वचनः ईषद्धसन् 'देवि, शब्दसामर्थ्याद्गुणान्दोषीकर्तुं
दोषानपि गुणीकर्तुं समर्थासि । अलोकसामान्या तव शक्तिः । किम-
सुघटं श्लेष्मभाषणरसिकानाम् । प्रसीदतु वत्से, मयि निर्व्याजप्रेममांसलं
भेदः । राक्षसविधिर्विवाहविधिभेदः । कुसुमेषुर्मदनः । मधुपा इति निन्दा ।
कुसुमेष्विति भिन्नं पदम् । भृङ्गा इति तत्त्वार्थः । मदने आसक्ता इति निन्दा ।
मय्यनासक्ता इति तत्त्वार्थः । मारस्य हित इति निन्दा । मा रमेति तत्त्वार्थः ।
यस्या इति । मधुपादि सप्तकं मद्यपाय्याद्यर्थकमिति निन्दा । परपुष्टः परान्ना-
भिवृद्धशरीरः । सुखप्रश्नचतुरेत्यादिशब्दाः समानार्थकाः । 'एकब्रह्मव्रताचारा
मिथः सब्रह्मचारिणः' इत्यमरः । एकासिका एकासनस्थितिः । तत्त्वार्थखु
परपुष्टः पिकः । 'द्विजिह्वः पन्नगे पुंसि खले स्याद्वाच्यलिङ्गकः' इति त्रिकाण्ड-