2023-09-05 15:22:06 by jayusudindra

This page has been fully proofread once and needs a second look.

चतुर्थ उच्छ्वासः ।
 
अथ परेधुः श्रीनिवासाज्ञया नारायणपुरं गच्छन्ती बकुलमाला
मध्येमार्गमनर्गलप्रसरद्यशसं भगवन्तं ब्रह्मरातं निरीक्ष्य प्रणम्य च यथा वृत्तं निवेदयामास — 'महर्षे, कृपोद्धत, विष्णुरात, विदितमेव भवता
भवतापहारकः श्रीनिवासो भुजङ्गाचले निवसति' इति । स च कदाचि-
न्मृगयापरावृत्तो मामभणत् – 'अयि बकुले, अद्य मया विपिनभुवि
भ्रमता पद्मसरसो नातिदूरे कापि पिकालापा दृष्टा स्पृष्टा च मनसा ।
या खलु हीनमहीनमपि कलयति वेण्या । तनुमतनुं चोल्लासयति दृष्ट्या ।
अगं नागं च लज्जयति कुचाभ्याम् । गजमगजं च ह्रेपयति गमनेन ।
रतिमरतिं च तिरयति रूपेण । किं बहुना ।
 
वक्रं पुष्करहारि शम्बरलसन्नेत्रं वियोगो विषं
बिम्बोष्ठोऽमृतसुन्दरः शरशतं ते ते कटाक्षाङ्कुराः ।
क्षीरं वाग्भुवनोत्तरं वपुरये यस्याः कुचः सद्रसः
प्रेमा जीवनमेव तद्विघुमुखी सा साधुनीत्युज्ज्वला ॥ १ ॥
 
स खलु दर्शनात्प्रभृति चन्द्ररेखेव सागरस्य कामपि विकृतिमापादितवती
चेतसः । तदत्रभवती भवती नियतिश्च शरणम्' इति । अहं तु तदुक्त-
वती यदुचितमार्यभावस्य । तथा हि — 'देव, परिहरेमां मनीषाम् ।
यतस्त्वादृशानां पार्थिवानां नोचितः पराभवप्रकारो मन्मथेन । तोषहेतु-
 
अथेति । ब्रह्मरातः शुकः । विष्णुरातः परीक्षित् । पिकालापा वनिता ।
या खल्विति । अहीनां सर्पाणामिनः श्रेष्ठः शेषः । 'इनः सूर्ये प्रभौ' इत्यमरः ।
शरीरं मन्मथं च । पर्वतं गजं च । अगजं पर्वतोत्पन्नं गजम् । मदनभार्यामनासक्तिं
च । इति तत्त्वार्थः । चमत्कारस्तु शब्दत एव । वक्रमिति । पुष्करादि नवकं
जलार्थकम् । धुनी नदीति चमत्कारः । तत्त्वार्थस्तु साधूनां नीत्या उज्वला ।
रसः शृङ्गारः । अत्रभवती पूज्या । अहं त्विति । पार्थिवादयस्त्रयः संवत्सर-