2023-09-05 15:16:14 by jayusudindra
This page has been fully proofread once and needs a second look.
दूरस्थं निकटीकरोत्यसुघटं चानीय पाणौ ददा-
त्याच्छन्नं प्रकटीकरोति पुरतो दैवं प्रसन्नं यदि ॥ ६१ ॥
इति विचिन्त्य च । 'अपि सखि, दिष्ट्या दृष्टासि किं कुशलं ससखी-
कदम्बाया युष्मद्भर्तृदारिकायाः' इत्यानन्दवाप्पस्थाने विरहसंतापजनिता-
"श्रूणि कल्पयन्हरितालपीतांशुकाञ्चलेन प्रमृज्य शोणारविन्दद्रोहदक्षं
नेत्रयुगुलम्, सस्पृहं तामभाषत । सापि लज्जामन्थरतारं विलोक्य
'कुशलमव्याहतं भर्तृदारिकायाः । यस्या भवादृशश्चित्तोन्मथनहेतुः । किं
चायं विदितवेद्यः कृतः देवस्य प्रियसहचरो मरालकः' इत्यभिधाय
कृततत्कालोचितालापेन तेन चाभिमतप्रयाणा गृहीतपारितोषिका 'अयमयं
देव, प्रयाणप्रणामाञ्जलिः' इति परिवृत्य परिवृत्य पश्यन्ती शनैर्जगाम ।
श्रीनिवासोऽपि मरालकवचनदृढीकृतधृतिः फणीन्द्राचलमागत्य बकुल-
माला नारायणपुरं प्रेषयितुमिच्छन् ।
मधुरवचनरीतिं मञ्जुसत्संविधानां
कथमपि निजकार्यस्यानुकूलां विधाय ।
कविरिव विधिनारीं वेङ्कटेशः प्रसाद्य
प्रभुरपि बकुलां तां श्रीनिवासो ननन्द ॥ ६२ ॥
इति श्रीवेङ्कटेशकविविरचिते श्रीनिवासविलासे पूर्वभागे तृतीय उच्छासः ।
स नारायणः । कान्तो मनोहरः । पतिर्भवतु । सा मङ्गलदेवतेति । पुरा विवाहा-
त्प्राक् । इत्याशीःप्रकारः । प्रकृतोपयुक्तालापपक्षे तु प्रतापी । चक्रं राष्ट्रम् ।
।
प्रजा लोकः । अभिभवः पराभवः । नेति समासः । श्रीवत्सलश्वासौ क्ष्मापतिश्च ।
भवान्पुरोवर्ती । कान्तः पतिः । पुरा पूर्वजन्मनि । यत्र यस्मिन्कस्मिंश्चित्तपोवने ।
शुभाधिदेवते पद्मावत्या उपचारः । 'प्रजा संतानलोकयोः' इति । भङ्गी रीतिः ।
मधुरेति । मधुरं स्वादु । इति श्रीधरणीधरविरचितायां श्रीनिवासविलासचम्पूटी-
कायां पूर्वभागे तृतीय उच्छ्वासः ।