2023-09-05 06:44:16 by jayusudindra
This page has been fully proofread once and needs a second look.
रागाग्निर्मलयानिलैरुपचितः स्मैनां दशां प्रापय -
त्यत्रानङ्गकलम्बको हृदि गतः साक्षी न चान्यो जनः ॥५८ ॥
इति वदन्नेव यहच्छया तत्स्थानमगमद्यत्र शृङ्गारमञ्जरी मरालकश्च ।
आगत्य च तां दृष्ट्वा दृष्टपूर्वतनसंजातप्रत्यभिज्ञः तयापि सरमसमुत्थाय
सम्यङ्मौलिदेशप्रसारितचेलाञ्चल्या 'कथमत्र देवोऽपि ' इति सस्मेर -
मुखमञ्जलिं वद्ध्वा
यः शूरान्वयसंभवः करगतं चक्रं च यस्य प्रजा
लोके नाभिभवत्वमेति स च मे श्रीवत्सलक्ष्मा पतिः ।
कान्तस्तत्रभवान्भवत्विति यया तप्तं तपोभिः पुरा
सा वै मङ्गलदेवता भवतु ते कामाय सोमानना ॥ ५९ ॥
इत्याशिषा सविनयमभिनन्दितदर्शनश्चिन्तितवान्— 'अहो, अपूर्वेयमा-
शिषां परिपाटी । यदस्मिंञ्श्लोके तत्रभवानिति शब्दश्रवणेन किमप्यान-
न्दमेदुरितमिव चेतः । प्रायः प्रकृतोपयुक्त एवालापोऽयं भवेत् । अथ
वा भ्रान्तेरेष विलासः । यदत्र यदृच्छया प्रयुक्तेषु शब्देषु स्वानुकूलार्थ- ग्रहणम् । किमाश्चर्यमेतत् जगदेव तन्मयं पश्यतः । अथ वा तर्का-
गोचरा खलु नियतेर्भङ्गी ।
अब्दानामयुते गते सुतजनीरक्षा च तेन ऋतो-
रस्त्वेतद्धनुरैशमुग्रमभवद्भग्नं कथं तेन हि ।
अस्त्वेतच्च दशाननं स हतवानाजौ तदप्यस्तु वा
तद्वार्तां त्रपते वदन्नहि कथं वल्मीकजन्मा कविः ॥ ६० ॥
किं च ।
भिन्नं मेलयति प्रमादगलितं ग्र<flag></flag>ति नीतं पुनः
प्रत्यावर्तयति क्रमेण शिथिलं नव्यं तनोति क्षणात् ।
तत्त्वार्थः । विषमातिनिम्नोन्नता । यः शूरान्वयेति । शूरो यादवभेदः । प्रजा
पुत्रः । नाभिभवत्वं चतुर्मुखत्वम् । तत्रभवान्पूज्यः । श्रीवत्सं लक्ष्म चिह्नं यस्व