2023-09-05 06:36:35 by jayusudindra

This page has been fully proofread once and needs a second look.

शान्तिर्भवेद्वत्सायाः' इति । तदाहमन्तर्नियमितस्मिता 'किं भवति मन्त्र-
जलेन विद्याबलेन वा । मुधैव मामायासयति देवो भर्तृदारिकामिव
मदनः । देवोऽपि भ्रान्त इव लक्ष्यते' इति स्वगतमालोच्य प्रकाशम्,
'देवस्याज्ञा प्रमाणम्' इत्युक्त्वा अनुष्ठितराजादेशा प्रतिनिवृत्तास्मि ।
वयस्य, उक्तं वक्तव्यम् । यदीषदपि परिचयः सरलानां नान्तरं सहते ।
सखे मरालक, चित्रमेतत् ।
 
स्वान्तं हिनस्ति मदनो मानभङ्गाय कल्पते ।
सोऽपि सौख्योन्नतेर्हेतू रागस्य विषमा गतिः ॥ ५६ ॥
 
अस्त्वेतत् । स सुकृती क्वेति न जाने । यस्तु तादृग्जगज्जयजङ्ग-
ममदनवैजयन्त्याः शृङ्गारसारसर्वस्खमञ्जूषाया हृदयाकर्षीति अस्त्वेतदप्य-
नुमन्यस्व यथाभिगतगमनाय । वेला भूयसी जाता । किंत्वेतदपि ज्ञातु-
मिच्छामि को भवानिति विस्तरतः । तत्कथय' इत्याभाष्य जोषमासीत् ।
मरालकोsपि 'सखि, शृणु मदीयवृत्तान्तम्' इति यावद्वक्तुमिच्छति
तावदेव श्रीनिवासोsपि
 
नो नीता रतिमन्दिरं मणिमयं नो मञ्चमारोपिता
नो दष्टोऽधरपल्लवः कुचतटी स्पृष्टा न वा पाणिना ।
न क्रोडेऽपि कृता न वा मृदुगिरा संभाषिता केवलं
दृष्टा चूतवने करोति विवशं चेतः कथं कुर्महे ॥ ५७ ॥
 
भूयः कातरतामवाप हृदयं वस्त्वन्तरं नेक्षते
दृष्टिः कम्पमुपैति गात्रमयते धैर्यं निरालम्बताम् ।
 
दृष्टिपरिहाररूपः चिकित्साभेदः । इति गूहनप्रकारः । तत्त्वार्थस्तु – स्मारं स्मर
संबन्धिनम् । जैवातृकश्चन्द्रः । स्तोकेन वायुना मन्दमारुतेन । कस्य यूनः ।
मन्त्र आलोचने । 'वेदभेदे गुप्तवादे मन्त्रः' इत्यमरः । प्रमाणं प्रमात्रीकरणम् ।
'प्रमाणं हेतुमर्यादा शास्त्रेयत्ताप्रमातृषु' इत्यमरः । 'बाला स्याद्वासूः' इत्यमरः ।
स्वान्तेति । 'मानश्चित्तसमुन्नतिः' इत्यमरः । इति चमत्कारः । कोपभेद इति