2023-09-05 06:28:15 by jayusudindra
This page has been fully proofread once and needs a second look.
भूभृति संबद्धक्रीडानुरागासीत् । अकालोऽयमित्यकृतार्थैव यावद्भवन-
मायाति तावदस्या इयं दशा । तदिदानीम्
देहो मध्यसमच्छविः स्मितरुचिं धत्तेऽथ नासामणिः
कैश्यस्यानुकरोत्यमेयचरितानल्पान्विधत्ते गुणान् ।
निश्वासश्च विजृम्भते प्रतिकलं बाष्पो यथा यौवनं
संतापस्तुलयत्यपारविभवं लावण्यवारांनिधिम् ॥ ५४ ॥
देवि, प्रथमं तावदस्याः करयुगले तापमाकलय ।
यस्मिंस्तामरसभ्रमेण मिलितैर्भृङ्गैः पतङ्गायितं
संस्पृष्टैर्मणिबन्धकीरनिकरैः संपातिपत्र्यायितम् ।
केलीपुत्रिकयापि दिव्यसमयश्रीरामकान्तायितं
लेपार्थं कलितैश्च चन्दनरसैरामोदिघूपायितम् ॥ ५५ ॥
किं चैनम् स्मारं ज्वरं कलय लोकविलक्षणम् । योऽयं पूर्णचन्द्रोद-
याभियोगाद्वर्धते । जैवातृकदर्शनादपि जृम्भते । सेयं भर्तृदारिका
स्तोकेन वायुनापि दूनेव भाति । कस्यचिद्दृग्दोषेणापि भवितव्यम् ।
यश्चास्मन्मन्त्राविषयः । अपि च । किमेतदिति विविच्य प्रष्टव्यम् ।
यस्यामवस्थायां वर्तते भर्तृदारिका सा किं देव्या न ज्ञायते । देव्येत-
देव जानामि । इतः परं देवी प्रमाणम्' इति ।
ततश्च सा सूक्ष्मज्ञा महादेवी क्षणमिव ध्यात्वा दीर्घमुष्णं च निश्वस्य
किमप्यनुक्त्वा प्रययौ । महाराजोऽपि देवीद्वाराकलितवृत्तान्तैकदेशो
माम् 'वासु, इत एहि शृङ्गारमञ्जरि' इत्याहूयाज्ञापयामास –'गच्छ
तपोवनं यत्र भगवानुशना । शीघ्रमेव मन्त्रपूतं जलमाहर । येन ताप-
भाम् ॥ ५४ ॥ यस्मिन्निति । संपातिनामकः कश्चन पक्षी सूर्यकिरणदग्धपक्षो
जात इति श्रीरामायणम् । दिव्यं शपथः । रावणहननानन्तरं सीता शुद्ध्यर्थमग्निं
प्रविवेशेति तत्रैव ॥ ५५ ॥ किं चेति । स्मेति भिन्नं पदम् । अरमत्यन्तमित्यर्थः ।
पूर्णचन्द्रोदय औषधभेदः । जैवातृको वायुः । पिशाचबाधेति लोकोक्तिः । मन्त्रः