2023-09-05 06:21:32 by jayusudindra

This page has been fully proofread once and needs a second look.

इति कथयन्त्येव बाष्पाकुललोचने वयस्याकदम्वे विहाय प्रमदुवनं प्रन-
दाजनं च मय्यप्यप्रसादा प्रासादमारुह्य विहाय पर्यङ्कं पर्यङ्कस्थापितवा-
मकूर्परा करकमलाञ्चितवदना दक्षिणदृक्कोणेन किमपि किमपि पश्यन्ती
कनिष्ठिकानस्वशिखया बाष्पसलिलं दिशि दिशि किरन्ती क्षणं क्षणं
परिचर्यापरायणेऽपि जने शून्यतरया चित्तवृत्त्या बाहुयुगलवेष्टितजानुद्व-
यस्थापितमौलिः क्षणं दीनदीनां दृशं पार्श्वस्थितसखीवर्गे धोरं धीरं संचा-
रयन्ती तस्थौ । अत्रान्तरे कथं कथमपि ज्ञातवृत्तान्ता देवी धरा कन्य-
काप्रासादं स्खलच्चरणविन्यासमागत्य किमिदं किमिदमिति पप्रच्छ सखी-
वर्गम् । तदनु
 
वैद्यैर्ज्वरोऽयमिति दृष्टिरिति स्म धात्र्या
पीडा शनेरिति वचो गणकैः प्रयुक्तम् ।
अत्रान्तरे सहचरीगणमाप हासः
कन्यां त्रपा नृपसतीमथ संशयोऽपि ॥ ५३ ॥
 
अथ देवी धरा विचिकित्सातरङ्गितान्तरङ्गा मामपृच्छत् – 'हञ्जे,
'किमेतत् । सत्यं कथय' इति । तत्र च व्यतिकरे सानुनयं पृच्छन्त्यां
देव्यां कृतावहित्थाखालीषु 'इदानीं किमेषा कथयति पापा' इति रहस्य -
भङ्गभिया दूनायां भर्तृदारिकायां सजिह्वायन्त्रणम् ' मा भण । शापिता-
स्यस्मत्प्राणैः' इति सूचयन्त्यां मदनकलिकायाम् 'कथय कथयाविलम्बि-
'तम्' इत्युत्सर्पितपूर्वकाये जल्पति जरद्धात्रीवर्गेऽहमेवमवदम् – 'देवि,
ह्यस्तने अस्माभिः सहेयं भर्तृदारिका पुष्पावचयाय गता खलु वनवाटि-
काम् । तत्र चित्तजातकुतूहलेनोत्तरलिता कस्मिंश्चित्किरातकुलभूषणे
 
भावः ॥ ५२ ॥ पर्यङ्कमेकम् । 'तु हि च स ह वै पादपूरणे' इत्यव्ययवर्गामरः ।
पूर्वेद्युः ह्यो गते । अकृतार्था अकृतप्रयोजना ॥ ५३ ॥ स्मितरुचिं स्मितशो-