2023-09-05 06:15:17 by jayusudindra
This page has been fully proofread once and needs a second look.
गलताश्रुजलेन क्षणादञ्जलिमापूर्य कंदर्पादीन्कटाक्षीकृत्य वार्यमाणापि
सखीकदम्बेनैवमाह । तथा हि-
यदि जन्मप्रभृति भगवतो
नारदोक्तगुणकर्मरूपात्सकृल्लतामण्डपे ल-
ज्जामन्थरतारमालोकितात्तच्छबरयूनः अन्यस्मिन्पुरुषे यद्यहमननुरक्ता त-
त्सफलीभवतु मे सरस्वती ।
त्वं रे याह्यतनुत्वमाशुगचयः पञ्चत्वमेतु क्षयं
सामन्तः शिशिरांशुकोऽप्यसुमनोभावं च पुष्पाकरः ।
मान्द्यं यातु मरुत्सुहृत्तव रतिं गृह्णातु सर्वं जग-
न्मच्छापान्मदनाहमस्मि निरतैकस्मिन्नसाधारणी ॥ ५१ ॥'
इत्यभिधाय किंचिदालोच्य सर्वमपि सखीगणमभणत् - 'अयि सख्यः,
यद्येनामापदं निस्तीर्य जीवामि तर्हि वरमेव । अन्यथा यद्यवतरति दैवा-
धुष्मल्लोचनपथं स शबरयुवा तदैवं वक्तव्यः ।
यद्वैशसं मयाप्तं नहि तत्त्वद्रागहेतुकं किं तु ।
गुरुजनलज्जामूलकमिति जानन्रमण मुञ्च मयि करुणाम् ॥ ५२ ॥'
कोकं तापयित्वा पुष्पगणपुण्यात्प्राप्तस्य फाल्गुनमासानन्तरं प्राप्तस्य प्रेरणया प्राप्त
गन्धेन मन्देनाप्रतिकूलेन च गन्धवहेन अनुगृहीतः शोभनकुलः उदयकाले
शोणाकाशः रौहिणेयजनकः नक्षत्राधिपः । संयुक्तहर्षजनकः । विरहदुःखितं लोकं
त्वां स्वकिरणैस्तापयित्वा किरातचक्रवर्तिन आशां विहाय अन्यं यं कंचन युवानं
भजेत्युपदिशतीति । त्वं रे याहीति । अतनुत्वं देहरहितत्वम् । 'स्यात्पञ्चता
कालधर्मः' इत्यमरः । क्षयं नाशम् । असुमनोभावमपण्डितत्वम् । मान्द्यं मूढत्वम् ।
रतिं भार्याम् । इति शापप्रकारः । देवादियं वाक् यथास्थितप्रकारेण परिणता ।
तथाहीति । अनङ्गत्वम् । पञ्चसंख्या विशिष्टत्वम् । कलाहानिम् । मालतीपुष्पा-
भावम् । अतीव्रगमनत्वम् । आसक्तिमिति । सामन्तो मन्त्री । साधारणी
वेश्या । एकत्र निरता सीध्वा । 'क्षयो रोगान्तरे वेश्मकल्पान्तापचयेषु च ' इति
सुधा ॥ ५१ ॥ यद्वैशसमिति । वैशसं हानिम् । त्वं मदर्थं दुःखी मा भवेति