2023-09-05 05:53:05 by jayusudindra
This page has been fully proofread once and needs a second look.
'रे मनोज कुलदीपकरत्वं प्रापितोऽसि नचिरेण विधात्रा ।
यत्पितुस्तव जनित्रितयेष्टामाश्रितोऽसि वनितावधचेष्टाम् ॥ ५० ॥
इति । अथाहमचिन्तयम् – 'अये, मदनहतकोऽयमतितरां पीडयति
भर्तृदारिकाम् । तद्बलसर्वस्वमयं सुधांशुः । तदनेनोपायेन भर्तृदारिकां
कोपयित्वा शिक्षणीयः यथायं स्वां प्रकृतिं भजिष्यति' इति निश्चित्या-
वदम् – 'भर्तृदारिके, अहं कथयामि चन्द्रवृत्तान्तम् । तथाहि -
एष किल द्विजराजः परिकलितमध्वागमोऽतनुहुताशेन सदरं चक्रं
संताप्यानेकसुमनःकदम्बसुकृतोपनतस्य तपस्यानन्तरभाविप्रसादस्य भग-
वतो माधवस्य प्रेरणया कलितपरमामोदेन मन्दानुकूलेन वायुनानुगृहीतः
सुवंश उदयन्नेव रक्ताम्बरो बुधनन्दनो मृगकृत्तिकापरिग्रहो योगिजनो-
ल्लासको वियोगदूनं जनमेनं खकरेण संताप्योपदिशति परं पुरुषं भजेति ।
तदत्र किं चित्तविक्षेपेण' इति । अथ सा वेलातीतकोपा 'आ: दुरात्मा
परपुरुषं भजेति मामुपदिशति किल । तत्फलं सद्य एवानुभवतु चन्द्र-
हतकः, तत्संबन्धान्मदनादयोऽपि' इत्युक्त्वा विरहाकुलाभ्यां लोचनाभ्यां
भावः ॥ ४७ ॥ रे मनोजेति । नचिरेण शीघ्रम् । पितुः कृष्णस्य । कृष्ण-
भार्गवराघवरूपेणेति । जनित्रयं जन्मत्रयम् । इष्टामभिमताम् । पूतनाताडकारे-
णुकाः कृष्णेन तत्तदवतारे संहृता इति पुराणम् । पितृचरणानुचरणादेव कुल-
दीपकरत्वं युक्तमिति भावः ॥ ५० ॥ अथाहमचिन्तयमिति । प्रकृतिं
स्वभावम् । एष चन्द्रः । ब्राह्मणश्रेष्ठः ज्ञातमध्वशास्त्रः अनल्पाग्निना सशङ्कं
सुदर्शनं तापयित्वा देवगणचीर्णपुण्येन मिलितस्य कायक्लेशात्मकतपश्चर्यानन्तर-
जायमानानुग्रहस्याज्ञया संबद्धात्यन्तानन्देन मूढजनोद्धारप्रवृत्तेन वाय्ववतारभूत-
श्रीमध्वाचार्य
भगवञ्चरणेन स्वीकृतः । शोभनवेणुधारी बाल्य एव काषायवसन-
धारकः विद्वद्धर्षक: हरिणाजिनयुक्तः ध्यानिलोकानन्दकः उपायाभावेन दुःखितं
प्रसिद्धं लोकं स्वहस्तेन चक्राद्यङ्कितं कृत्वा उत्तमपुरुषं नारायणमाराधयेत्युपदिश-
तीति चमत्कारः । तत्त्वार्थस्तु द्विजाधिपतिः । ज्ञातचैत्रागतिः । मदनाग्निना सभयं