2023-09-05 05:46:23 by jayusudindra
This page has been fully proofread once and needs a second look.
मातुलहन्तुस्तनयो मदनस्त्वं तस्य मातुलश्चन्द्र ।
मा विश्वस हेतुगुणाः कार्ये किं नहि भवन्ति तारेश ॥ ४५ ॥
कुह्वाह्वानचणोऽयं पिकनिकरोऽहिं च पोषयति वायुः ।
तद्द्वितयाद्भययुक्तस्त्वं सोम किमित्यये तयोर्मिलसि ॥ ४६ ॥
सर्वलोकजननीति विश्रुतां मां दहत्यविरतं स्वरैः करैः ।
आत्मभूरसि निवारयाशु तं मीनकेतन कुमुद्वतीसखम् ॥४७॥
अपसर चन्द्राद्दूरं कथयामि हितं समीर गिलति त्वाम् ।
एष भुजङ्गश्चन्द्रो मिथ्या चेत्पृच्छ भोस्ताराम् ॥ ४८ ॥'
इत्युक्त्वा च 'हञ्जे शृङ्गारमञ्जरि, इत एहि' इति मामाहूय मत्स्कन्धा -
हितैकवाहुरितस्ततो हेमलतेव चलन्ती प्राह -
'दुरुच्छेद: प्रेमा क्वचिदपि पदार्थेषु रचितः
स वो यत्राभूमिः प्रियसखि विधातर्यसुमुखे ।
शरारुः कामोऽयं शकलयति मर्माणि तिलंशो
न यान्त्येते प्राणाः कथमपि दुराशानिगडिताः ॥ ४९ ॥
अयि शृङ्गारमञ्जरि, एते मदनादयो न गुणसाध्याः । किं तु दण्ड्या
एव । मदनं लक्षीकृत्य ।
मरः ॥ ४४ ॥ मातुलेति । मातुलहन्ता कृष्णः । तस्य मदनस्य । कार्ये कारण-
गुणाः संभवन्तीति शास्त्रम् ॥ ४५ ॥ कुह्वाह्वानेति । 'सा नष्टेन्दुकला कुहू:
इत्यमरः । तस्या आह्वाने चणः समर्थं इति चमत्कारः । तत्त्वार्थस्तु कुहूरिति पिक-
ध्वनेर्नाम । अत एव 'कलकण्ठः कुहूमुखः' इत्यजयः । 'भुजंगोऽहिः समाख्यातः
सिंहिकासूनुरप्यहिः' इति । कुहूः अहिरिति । तयोर्द्वितयम् । तयोः पिकवाय्वोरिति
सप्तमी ॥ ४६ ॥ सर्वेति । सर्वलोकानां जननी माता । मामिन्दिराम् । आत्म-
भूर्ब्रह्मा इति चमत्कारः । तत्त्वार्थस्तु सर्वलोकजनानां या नीतिः । पद्माचत्यभि
धानम् । मदनः लक्ष्मी पीडयतीत्यनेन कामस्य तत्पुत्रत्वात्कोपोत्पत्तिर्भवतीति