2023-08-30 14:46:00 by jayusudindra
This page has been fully proofread once and needs a second look.
ण्यादिमहिषीजनता न केवलं स्पृहयांबभूव, किं तु लसत्पीनपयोघरचक्र-
रुचये प्रद्युम्नोद्धवानुकूलाय अक्रूरभानुमुखोल्लसिताय तिरस्कृतकुजन्मने
गजमल्लदर्शितविक्रमक्रमाय तथाविधो गोपबालाजनश्च ।
यस्माच्च बहुलयादवसंततिर्दवसंततिर्बहुलया चाभूत् ।
यस्य चाद्भुतकरश्रियं सदाशयो बहु मेने । श्रवांसि श्रुतयो गायन्ति ।
चेतोवृत्तिं सुमनस्ततयोऽभिनन्दन्ति ।
यस्य चामीकरोज्ज्वला भूषा गजाश्च । चापापकारिणी भ्रूलता मनोवृ-
'चक्रे त्रैविक्रमाभिधं करणम्' इति ताराशशाङ्के । स्पृहायोगे चतुर्थीति पक्षे
माधवो वसन्तः । लतानामङ्गीकरणमङ्गीकारः । उत्कृष्टकोरकः समीचीनकोरकः ।
कोषः कोरकः । आयोजनं संबन्धः । 'क्षारको जालकं क्लीबे कलिका कोरकः
पुमान्' इत्यमरः । अत्र कोरकवाचकबहुशब्दलाभः । 'सुरतं कीडा निधुवन-
मायोजनमाहुरर्थविदः' इति हारावली । 'कोशः कोषः' इति द्विरूपः । 'कोष -
विशदौ' इति गदसिंहोष्मविवेकः । 'कोषः खड्गपिधाने स्यात्कुड्मलेऽर्थौघदिव्ययोः'
इति शान्ते षान्ते च लिङ्गाभट्टः । 'ग्रामता जनता' इत्याद्यमरः । किं त्विति ।
लसत्सजलमेघकदम्बकान्तये । पक्षे स्फुरत्पीनकुचचक्रवाककान्तिः । इति विभक्ति-
व्यत्यासः । एवमग्रेऽपि । प्रद्युम्नः उद्धवः अक्रूरो भानुश्च यादवभेदः । पक्षे प्रद्युम्नो-
द्धवो मदनोत्सवः । अक्रूरभानुमुखं चन्द्रवदनम् । 'मुखशब्द आद्यर्थकः' इति
सुधा । हतनरकासुराय । पक्षे तिरस्कृतकुत्सितोत्पत्तिः । गजः कुवलयापीडः ।
मल्लश्चाणूरः । विक्रमः पराक्रमः । क्रमो रीतिः । पक्षे गजश्रेष्ठवद्दर्शितपादविक्षेप -
रीतिः । 'उद्धवस्तु स्यान्महे कृष्णमन्त्रिणि' इति रत्नमाला । 'मुखं वदने मुख्ये
ताम्रे छद्मनि' इति भागुरिः । यस्मादिति । दवसंततिर्बहुलया । कदाचित्कृष्णो
दावानलं पपाविति पुराणम् । पक्षे बहुला च सा यादवसंततिश्च । यस्य
चेति । करः शयश्च । श्रवः श्रुतिश्च । चेतो मनश्चेलेकार्थशब्दलाभात्कश्चिच्चम-
त्कारः । तत्त्वार्थस्तु – अद्भुतकरी विस्मयकारी श्रीः संपत् । सदाशयः समीचीन-
मनाः । श्रवांसि यशांसि श्रुतयो वेदाः । सुमनस्ततयो देवसमूहाः । यस्य चामी-
करेति । चामीकरं स्वर्णम् । पक्षे चेति च्छेदः । अमी प्रसिद्धाः । करः शुण्डा-