2023-09-05 05:36:59 by jayusudindra
This page has been fully proofread once and needs a second look.
कदाचिद्वनरमायाः प्रथमर्तुमहोत्सवसमये कस्मिंश्चिल्लतामण्डपे
मिलिताः सर्वे सभासदः । तदाग्रत्वपूजार्हः क इति प्राप्तायां विचिकि-
त्सायां कलावत्तया स्वयमिति चन्द्रः, मरुत्कुलं विश्वमान्यमिति वसन्त-
वायुः स्वात्मानं बहु मेने । तदा तु तयोर्विवादमाकर्ण्य भूपे स्वयमेव
मदने एकः कलङ्की द्वितीयो मन्दः कृष्णोऽयं कलकण्ठः प्रथमं पूजनीय
इति वदति सत्यमाज्ञापयति महाराजः-यत्पुरा राजसूययज्ञ एव निर्णयो
जातः अग्रपूजार्हः कृष्ण इति इति वसन्तेन भणितम्, चञ्चरीकैरनु -
मोदितम्, अशोकेनाङ्गीकृतम्, रसालेन च श्लाघितम् । ततः प्रभृति
चन्द्रादयः परस्परं साभ्यसूया इव तिष्ठन्तीति श्रुतं मया । तदद्य भेदो-
पायेनैव दैवाज्जातस्तेषामन्तः कलहो दृढीकरणीय इति । तच्छ्रुत्वा
चमत्कृता स्मरशरदृढप्रहारवेपमानहृदयापि वसनाञ्चलेन नृसिंहपुरीमिव
संबद्धनीरां प्रभातवेलामिवाकुलाकुलतारां लोचनयुगलीमुन्मृज्य 'साधु
श्लेषवादधुरीणे, साधु अरीणकाव्यनिर्माणकलाचतुरे, साधु भणितम्'
इति मुहुर्मुहुरभिनन्दनीयामभिनन्द्य 'हला, त्वमेव वसन्तादीन्मद्वचनेनैवं
कथय' इत्याह । तथा हि ।
चन्द्रः कान्तोऽपि रोहिण्या वृषभो न न गौर्भवेत् ।
वसन्त एष सुरभिस्थ किं तत्र ते रतिः ॥ ४४ ॥
अपटुः । समयः । यमः । नीलः । अमन्दगुणाः । शनिगुणा नेति विरोधः ।
अनल्पगुणेति परिहारः । कदाचिद्वनरमाया इति । ऋतुः स्त्रीपुष्पमिति
च । कालभेद इति तत्त्वार्थः । 'मरुतौ पवनामरौ' इत्यमरः । 'व्यासार्जुनाग्नि-
हरिकोकिलकाकसूरतामिस्रपक्षकलिनीलगुणेषु कृष्णः' इति भास्करः । नीरा
नदीभेदः । चन्द्रः कान्तोऽपीति । रोहिणी सुरभिश्च गौरिति चमत्कारः । तत्त्वा-
र्थस्तु चन्द्रभार्या । वसन्तः । 'अर्जुन्यघ्न्या रोहिणी स्वादुत्तमा गोषु, नैचिकी' इत्य-.