2023-09-05 05:28:05 by jayusudindra
This page has been fully proofread once and needs a second look.
कोऽत्र दोषः सुधाकरस्य' इति । एवं कथयन्त्यां प्रियसख्यां शून्यहृदयं
विहस्य तामेव लक्षीकृत्य प्राह भर्तृदारिका – 'सखि मदनकलिके,
पूज्यमानमभिहितं त्वया यत्समवर्ती चन्द्र इति । यतः ।
कृशानुभावं क्षीणोऽपि पूर्णोऽपि च न मुञ्चति ।
अतः सखि त्वया चन्द्र समवर्तीति गीयते ॥ ४२ ॥
सखि, इदमेकं विस्मृतं त्वया येन महानुपयोगस्तवेति स्मार्यते ।
मधुमाधवयोस्तुल्यः श्रीपुत्रः पुष्पसायकः ।
समवर्ती कुतः सोऽपि न भवेन्नीरजानने ॥ ४३ ॥
सखि, ज्ञातमिदानीं यच्चन्द्रादयः सर्वेऽप्यैकमत्येन चलन्ति तद्युक्तमेव
यत्सर्वेऽपि शनिस्वभावा एव । तथा हि । छायानन्दनश्चन्द्रः, वायुर्मन्दः,
वसन्तस्तु जातितः कालः, मदनश्च गुणतः कालः; कोकिलगणश्च वर्णतः
कालः । अस्तु वैतत् । पदमिदमेकमेव विस्मयकरं चेतसः । यत्त्वम-
मन्दगुणापि तेष्वेव मिलितेति तत्तुष्टोऽयं जनो धन्यश्चेति ।
तदनन्तरमस्मञ्चम्पकवल्ली 'मा कोपय भर्तृदारिकाम् । दूनेयं दुरा-
त्मना कुसुमधन्वना सुधाकरेण च । तदलमेतादृशवचनोपन्यासेन' इति
मदनकलिकां निर्भर्त्स्यवदद्राजपुत्रीम् – 'भर्तृदारिके, किमिति विषी-
दसि । एतेषामुपद्रवापनोदायास्ति कश्चित्सुलभ एवोपायः । तच्छृणु ।
इति विश्वः । सा प्रसिद्धा रसा भूमिः । विस्तृतत्वात् । आकाशम् । गजभेदः ।
लक्ष्मीः । वनिताभेदः । कृशानुभावमिति । समत्वं शब्दतः । तत्त्वार्थस्तु ।
अनुभावः प्रभावः । पक्षे कृशानुरग्निः । समं वर्तत इति समवर्तीति चमत्कारः ।
परेतराट् इति तत्त्वार्थः । भारकत्वादिति भावः ॥ ४२ ॥ मधुमाधवयोरिति ।
दैत्यनारायणयोरिति समत्वम् । मासभेदयोरिति तत्त्वार्थः ॥ ४३ ॥ छाया-
नन्दन इति । छायानन्दनो मन्दः काल इति शनिपर्यायः । 'शनिर्मन्दः प<flag></flag>
कालो छायापुत्रोऽसितश्च सः' इत्यमराधिकपाठः । तत्त्वार्थस्तु । कान्त्या हर्षकः।