2023-09-05 05:21:38 by jayusudindra
This page has been fully proofread once and needs a second look.
तदस्तु / किमस्माकं जगञ्चिन्तया ।
हंहो कलानिधिरयं बुधनन्दनोऽयं
सर्वज्ञमौलिमणिरित्यवदं सदैव ।
दोषाकरोऽयमिति कस्य पुरो मयोक्तं
मत्पीडने नहि निदानमिहास्ति किंचित् ॥ ४० ॥
अथ वा किं प्रार्थनया ।
'जीववधूग्रहणकलाप्रवीणता ते त्रिलोकविदितैव ।
संपीड्य मामपि वधूजीवग्रहणप्रवीणतां याहि ॥ ४१ ॥' इति ।
अथ मदनकलिका 'अहो आश्चर्यम् । यदियमविज्ञातरतिसुखापि
तस्य यूनो दर्शनादेवैवं ताम्यति, निन्दति च चन्द्रम्, भवतु । एवं
भणामि तावत्' इत्यालोच्याह – 'भर्तृदारिके, दिवासूर्यकृतस्वपरिग्रह-
कुमुदिनीपीडनासहिष्णुतया निशि तत्परिग्रहकमलिनीं बाधते । त्वद्बा-
धनेऽपि कारणमस्ति । तदपि श्रृणु । अर्धश्रवण एव तव मास्तु कोपः ।
तथा हि ।
तव कमलसदृशं नेत्रद्वयम्, अब्जसुन्दरं मुखम्, जलजहृद्यः कण्ठः,
तामरसमनोज्ञो वर्णः, सारसानुकारि जघनम्, पुष्करबन्धुर्मध्यदेशः,
पुण्डरीकसमानं गमनम्, पद्मोल्लासितं सौन्दर्यम् । किं बहुना। पद्मि-
न्येव भवती खलु । अतो ब्रवीम्ययं न विषमवर्ती किं तु समवर्तीं ।
हंहो इति । सर्वज्ञः शिवः । 'अथ दोषा च नक्तं च' इत्यव्ययम् । 'बुधः कबौ
रौहिणेये' इति ॥ ४० ॥ जीवेति । जीववधूरिति वधूजीव इति व्यत्ययात्कश्चि-
च्चमत्कारः । गुरुपत्नी स्त्रीजीवात्मेति तत्त्वार्थः । 'जीवः स्यात्रिदशाचार्ये द्रुमभेदे
शरीरिणि' इति हैमः । नवोढायां स्रुषायां च जायायां युवतौ वधूः' इति लिङ्गाभट्टः
॥ ४१ ॥ कमलसदृशमिति । कमलादयो नव पद्मार्थकाः । तत्त्वार्थस्तु-
कुरङ्गः । चन्द्रः । शङ्खः । तामरसम् । 'स्मृतं तामरसं पद्मे ताम्रकाञ्चतयोरपि'