2023-09-05 05:15:13 by jayusudindra
This page has been fully proofread once and needs a second look.
इति वदन्त्याश्चम्पकवल्ल्या वचनमनाकर्ण्यैव विरहमारकृशाङ्गी मां प्रत्य-
वादीन्नृपसुता – 'हला, पश्य ।
चन्द्रोऽयं भ्रमसंगतेन विधिना विष्णोः पदे स्थापितः
पूर्णत्वं गमितः सुलक्षण इति ख्यात्यापि संयोजितः ।
चक्राह्लादकरत्वमेति कमलानन्दं विधत्तेऽथ वा
स्नेहं वा किमसौ त्यजत्यपि मधोः पीतांशुको वा भवेत् ॥३७॥
इति । अथ क्षणमिव घ्यात्वा पार्श्वस्थिताया मदनकलिकायाः पाणिना
पाणिमवलम्ब्य –– 'सखि मदनकलिके,
चन्द्रोऽयं पद्मिनीद्वेषी पुण्डरीकविरोधकृत् ।
तस्य राकापतित्वं च राजत्वं चेति विस्मयः ॥ ३८ ॥
इति संलपन्त्येव लीलाकमलदीर्घिकातटमुपजगाम । तत्र निःश्रीकाणि
कमलान्यालोक्य कोपतरलिताक्षी भ्रुकुटीमाबद्ध्य चन्द्रमाह -
'धात्रा तातधियार्चितं सुरगजाधीशेन हस्ते धृतं
क्षेत्रेषु प्रथितं प्रियव्रततनूजातेन संरक्षितम् ।
शुभ्रांशो जगतां सुजीवनमये निन्दत्यथैतादृशं
हंहो पुष्करमाश्रयं निजमपि ज्ञातोऽसि जाल्मो भवान् ॥ ३९ ॥
राजके च देशे च बिम्बे च कदम्बके च' इति विश्वः ॥ ३६ ॥ ' हण्डे हञ्जे हला-
ह्वाने नीचां चेटीं सखीं प्रति' इत्यमरः । चन्द्रोऽयमिति । विष्णोः पदं नारा-
यणस्थानम् । मधुर्दैत्यभेदः । अंशुकमम्बरमिति निन्दा । तत्त्वार्थस्तु आकाशम् ।
लक्षणं कलङ्कः । चैत्रः । अंशुकः किरण इति ॥ ३७ ॥ चन्द्रोऽयमिति ।
पद्मिनी वनिताभेदः । पुण्डरीकं श्वेतच्छत्रम् । इति चमत्कारः । तत्त्वार्थस्तु 'राका
नवरजोनार्यां पूर्णचन्द्रतिथावपि ' इति रभसः ॥ ३८ ॥ धात्रेति । कमलम् ।
करिहस्ताग्रम् । क्षेत्रभेदः । द्वीपभेदः । जलम् । आकाशम् । इति षट् पुष्कर-
शब्दस्यार्थाः । 'जाल्मोऽसमीक्ष्यकारी स्यात्' इत्यमरः । 'पुष्करं पङ्कजे व्योम्नि
प्रयःकरिकराग्रयोः । ओषधिद्वीपविहगरासोरगान्तरे (?) ॥ इति सुधा ॥ ३९ ॥