2023-09-04 10:48:31 by jayusudindra

This page has been fully proofread once and needs a second look.

परं स राजपुत्रः क इति न जाने । तस्मिन्मुनौ यथाभिमतं याते
भर्तृदारिका तु सुकृतसारसर्वस्वे तद्वर्णितराजकुमारेऽनुरक्तहृदयासीत् ।
अन्यदा वसन्तकाल उपचितमनोभवविकृतिः एकत्र स्थितिमसहमाना
श्रवणमात्रगोचरे संकल्पनिर्मितदर्शनसुखदे तस्मिन्प्राणप्रिये कृतातिप्रणया
विरहविनोदनाय सुवर्णमुखरीतीरमुपससर्प सर्पवेणी । तत्र कंचन मृग-
यासक्तं किरातराजमपश्यत् ।
शृणु सखे, अद्भुतमिदं वृत्तम् ।
स किरातराजः स एव राजपुत्रः, यस्तु नारदोक्तगुणकर्मरूपकलापः ।
सोऽपि च ताम् । अथैतन्मिथुनमनुरूपं यद्येतन्मेलयेद्विधाता तर्हि सफ-
लस्तस्य मनोहररूपनिर्माणप्रयास इति मन्दमन्दं जल्पति सखीजने का -
लातिपातभिया प्रथमं चलितायां भर्तृदारिकायां सोऽपि किरातभूभृत्क्षणं
तत्रैव लतामण्डपे स्थित्वा स्वाभिमतदेशमगमत् ।
ततः प्रभृति गजेन्द्रगण्डमण्डलगलन्मदासारमाधुरीसुहितमिलिन्दा-
ङ्गनेव ननीरजातस्पृहा देवेन्द्रचित्तवृत्तिरिव नभोजनसंजातप्रीतिः कुक-
विवाग्विलास इव मृदुलां शय्यां नाङ्गीकरोति । दुष्टशूर्पश्रुतिरिवालिम-
ञ्जुलशब्दान्न सहते । एवं स्थिते
 
मन्दे मारुतजातविक्रमभरे चक्रे च शोकाकुले
निर्वाणे सुमनोगणेऽभिविलसत्यद्धा पलाशिव्रजे ।
भिन्नेऽस्मिन्कुमुदे शिलीमुखचयै रामायणप्रक्रियां
सम्यग्दर्शयतीव मित्र शुशुभे तारापतिः केवलम् ॥ ३५ ॥
 
'कलापः संहतौ बर्हे काञ्चयां भूषणतूणयोः' इत्यजयः । ततः प्रभृतीति ।
नीरे जाता स्पृहा न । पक्षे नीरजातं कमलम् । नभोजना देवाः । 'शय्येत्याहुः
पदार्थानां घटना च परस्परम्' इति सरस्वतीकण्ठाभरणे । 'द्विपायिशूर्पश्रुति-
कुम्भिसामनाः' इति हारावली । मन्द इति । तारापतिश्चन्द्रः । वसन्ते वायु-